SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ( १६४) वेग्वर्जस्य य्वृदन्त्यं दीर्वं भवति । प्वादित्वाद् हस्ते जिनाति । जिनीयात् । जिनातु । अजिनात् । ‘ज्याव्येव्यधिव्यचिव्यथेरिः' इति द्वित्वे पूर्वस्य इत्वे जिन्यौ । 'ज्याव्यधः' इत्यादिना य्वृति जिन्यतुः जिन्युः । जिज्यिथ, जिन्याथ जिन्यथुः जिज्य । जिन्यौ जिज्यिव जिज्यिम । जीयात् । ज्यातासि । ज्यास्यति । अज्यास्यत् । अज्यासीत् अन्यासिष्टाम् अज्यासिषुः। रीश् गतिरेपणयोः। रिणाति । रिणीयात् । रिणातु । अरिणात् । रिराय रिर्यतुः रियुः । रीयात् । रेतासि । अरैषीत् । लींश श्लेषणे । लिनाति । लिनीयात् । लिनातु । अलिनात् । लिलाय । लीयात् । लाता, लेता । अलैषीत् । व्लींश् वरणे । ल्वीश् गतौ । कम शृश् हिंसायाम् । कृणाति । चकार चकरतुः चकरुः । करिता, करीता । मृणाति । अमृणात् । ममार ममरतुः ममरुः । ममरिथ । मूर्यात् । मरितासि, मरीतासि । अमारीत् । शृणाति । अशृणात् । शशार। ऋ दृमः । ४।४।२० । एषां परोक्षायामृर्वा भवति । शश्रतुः, शशरतुः । शश्रुः, शशरुः । शशरिथ । शीर्यात् । शरितासि, शरीतासि । अशारीत् । पृश् पालनपूरणयोः । पृणाति । पपार पप्रतुः, पपरतुः पद्मः, पपरुः । पपरिथ । पूर्यात् । परिता, परीता। परिष्यति, परीष्यति । अपारीत् । वृश् भरणे । बृणाति । बबार बबरतुः बबरुः । बूर्यात् । बरिता,
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy