SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ (८६) सीत् । श्रांक पाके । द्रांक कुत्सितगतौ । पांक रक्षणे पाति । पायात् । पातु । अपात् । पपौ पपिथ, पपाथ । पेयात् । पाता । पास्यति । अपास्यत् । अपासीत् । लांक् आदाने । दाबक् लवने दासज्ञाऽभावात् प्रनिदाति । ख्यांक प्रकथने । ख्याति । ख्यायात् । ख्यातु । अख्यात् । चख्यौ । ख्यायात् , ख्येयात् । ख्याता । ख्यास्यति । अख्यास्यत् । शास्त्यमूवक्तिख्यातेरङ् । ३। ४ । ६० । एभ्यो धातुभ्यः कर्तर्यद्यतन्यामङ् भवति । आख्यत् आख्यताम् आख्यन् । प्रांक पूरणे । मांक माने। माति । ममौ। मेयात् । माता । नास्यति । अमास्यत् । अमासीत् । इंक् स्मरणे अयं प्रायेणाधिपूर्वकः । अध्येति । एति । इतः।। ..इको वा । ४।३।१६ । . इंधातोर्विद्भिन्नस्वरादौ शिति परे य वा भवति । यन्ति, इयन्ति । अधियन्ति, अधीयन्ति । अध्येषि अधीथः अधीय । अध्येमि अधीवः अधीमः । अधीयात् । अध्येतु, अधीतात् अधीताम् अधीयन्तु, अधियन्तु । अधीहि, अधीतात् अधीतम् अधीत । अध्ययानि अध्ययाव अध्ययाम । - एत्यस्तेर्वद्धिः। ४ । ४।३०। इणिकोः अस्तेश्चादेद्यस्तन्यां विषये वृद्धिर्भवति, न तु माङा। अध्येत् अध्येताम् अध्यायन् । अध्यैः अध्यैतम् अध्यैत ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy