SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ( ८४ ) हिंसायाम् । चचान चेनतुः चेनुः । अचानीत्, अचनीत् । ज्वर रोगे । जज्वार । अज्वारीत्, चल कम्पने । चचाल चेलतुः चेलुः । अचालीत् । ह्वल हमल चलने । ज्वल दीप्तौ च । इति भ्वाद्यन्तर्गणघटादेः समाप्तौ समाप्तो भ्वादिगणः । अथ अदादिगणः । कानुबन्धा अदादयः । अदं प्सां भक्षणे । वर्जनाद् नात्र शव् । अत्ति अत्तः अदन्ति । असि अत्थः अत्थ । अद्मि अवः अद्मः । अद्यात् अद्याताम् अद्युः । अद्याः अद्यातम् अद्यात / अद्याम् अद्याव अद्याम । अतु, अत्तात् अत्ताम् अदन्तु । हुधुटो हेर्धिः । ४ । २ । ८३ । होडन्ताच्च परस्य हेर्भिर्भवति । अद्धि, अत्तात् अत्तम् अत्त । अदानि अदाव अदाम | अदश्वाद् । ४ । ४ । ९१ । अत्ते रुदादिपञ्चकाच्च दिस्योः शितोरादिरड् भवति । आदत् आत्ताम् आदन् । आदः आत्तम् आत्त । आदम् आद्व आद्म । परोक्षायां नवा । ४ । ४ । १८ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy