SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ( १९६ ) अकारान्ताद् व्यञ्जनान्ताच्च परस्य सप्तम्याः कृदन्तं उत्तर"पढ़ें परे तम्पुरुष समासे लुब् न भवति । स्तम्बेरमः । कर्णेजपः । मनिहुतम् । अपो य-योनि-प्रति-चरे । ३ । २ । २८ । अस्मात् परस्य सप्तम्या यप्रत्यये योनि - मति-चरेषु चोत्तरपदेषु लुब् न भवति । अप्सु भवः असभ्यः । अप्सुयोनिः । अप्सुमतिः । अप्सुचरः । 'मध्यादन्ताच्च सप्तम्या गुरौ परे कुरा न - वाच्यः' मध्ये गुरुः । अन्तेगुरुः । अमूर्धमस्तकात् स्वाङ्गादकामे । ३ । २ । २२ । मूर्ध - मस्तकवर्जितात् स्वाङ्गवाचिनोऽद्द्व्यन्जनात् परस्याः सप्तम्याः कामवर्जित उत्तरपदे परे लुब् न स्यात् । उरसिलोम | शिरसिशिखः । उदरेमणिः । कण्ठे कालः । पश्यद् - वाग् दिशो हर - युक्ति - दण्डे । ३ । २ । ३२ । हर - युक्ति - दण्डे उत्तरपदे एभ्यः परस्या षष्ठ्या लुब्न भवति । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्डः । ' देवानांप्रिय इत्यटुव् निपात्यः' । ऋदुदित्तरतमरूपकल्पब्रुवचे लड्गोत्रमतहते वा ह्रस्वश्च । ३ । २ । ६३ । परतः स्त्रीलिङ्ग ऋदुदित् शब्दस्तरादिप्रत्यये बुवादावुत्तरपदे च परे ह्रस्वान्तः पुंवञ्च वा भवति । पचन्तितरा, पचत्तरा, पचन्ती
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy