________________
मंगलाचरये ।
श्री गौतमाष्टकम्.
श्रीइन्द्रभूर्ति वसुभूतिपुत्रं, पृथ्वी भवं मौतपगोत्ररत्नम् । स्तुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वाञ्छितं मे ॥ १॥ श्री वर्धमानात् त्रिपदीमवाप्य, मुहूर्त्तमात्रेण कृतानि येन । श्रङ्गानि पूर्वाणि चतुर्दशापि, स गौतमो यच्छतु वाञ्छितं मे ॥२॥ श्रीवीरनाथेन पुरा प्रणीतं मन्त्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सूरिवराः समग्राः, स गौतमो यच्छतु वाञ्छितं मे ॥ ३ ॥ यस्याभिधानं मुनयोऽपि सर्वे, गृहह्णन्ति मिक्षाभ्रमस्य काले । मिष्टान्नपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वाञ्छितं मे ॥४॥ अष्टापदादौ गगने स्वशक्त्या, ययौ जिनानां पदवन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वाञ्छितं मे ॥ ५ ॥ तिपंच संख्या शत तापसानां, तपः कृशानामपुनर्भवाय । अक्षीण लब्ध्या परमान्नदाता, स गौतमो यच्छतु वाञ्छितं मे ॥ ६ ॥ संदक्षिण भोजनमेव देयं, साघर्मिकं संघसपर्यमेति । कैवल्यवत्रं प्रददौ मुनीनां स गौतमो यच्छतु बाञ्छितं मे ॥७॥ शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिव मत्वा । पट्टाभिषेको विदधे सुरेन्द्रैः, स गौतमो यच्छतु वाञ्छितं मे ||८|| श्रीगौतमस्याष्टकमादरेण प्रबोधकाले मुनिपुङ्गवाये । पठन्ति ते सूरिपदं च देवा-नन्द लभन्ते नितरां क्रमेण ॥ 8 ॥