________________
आख्यातमकरणम.
अवात् ॥ ३ । ३ । ६७ ॥
गिरः कर्त्तर्यात्मनेपदम् ॥ अवगिरते ||
निवेशः ॥ ३ । ३ । ६८ ॥
कर्त्तर्यात्मनेपदम् ॥ शतमपजानीते ॥
( १३५)
सम्प्रतेरस्मृतौ ॥ ३ । ३ । ६९ ॥
ज्ञः कर्त्तर्य्यात्मनेपदम् ॥ शतं सआनीते । प्रतिजानीते । अस्मृताविति किम् ? मातुः सञ्जनाति ॥
अननोः ॥ सनः ॥ ३ । ३ । ७० ॥
ज्ञः कर्त्तर्यात्मनेपदम् ॥ धर्म जिज्ञासते । अननोरिति किम् ? धर्ममनुजिज्ञासति ॥
श्रुवोऽनाङ्प्रतेः ॥ ३ । ३ । ७१ ॥
सन्नन्तात्कर्त्तर्यात्मनेपदम् । शुश्रूषते गुरून् । अनाङ्प्रतेरिति किम् ? आशुश्रूषति । प्रतिशुश्रूषति ॥
स्मृदृशः । ३ । ३ ७२ ॥ सन्नन्तात् कर्त्तर्यात्मनेपदम् ॥ सुमूर्षते । दिदृक्षते ॥
शको जिज्ञासायाम् ॥ ३ । ३ । ७३ ॥ समन्तात् कर्त्तर्यात्मनेपदम् || विद्यां शिक्षते । जिज्ञासायामिति किम् ? शिक्षति ||
गन्धनावक्षेप सेवा साहसप्रतियत्नप्रकथनोपयोगे
॥ ३ । ३ । ७६ ॥
कृगः कर्त्तर्यात्मनेपदम् ॥ गन्धनं द्रोहेण परदोषोद्घाटनम् । उत्कुरुते । अवक्षेपः कुत्सनम् । दुर्वृत्तानवकुरुते । सेवानुवृत्तिः । महामात्रानुपकुरुते । साहसमविमृश्य प्रवृत्तिः । परदारान् प्रकुरुते । प्रति