________________
( ९० ) श्रीलचुहेमप्रभाल्याकरणम्. __ व्याप्ये वर्तमानाचतुर्थी वा।। न त्वा तृणाय तणं वा मन्ये । मन्यस्येति किम् ? । न त्वा तृणं मन्वे । नावादिवर्जनात् न त्वा नावमनं शुकं शृगालं काकं वा मन्ये । कुत्सन इति किम् ? । न त्वा रत्नं मन्ये । करणाश्रयणं किम् ?। युष्मदो मा भूत् । अतीति किम् ? । त्वां वणं मन्ये ॥ --
हितसुखाभ्याम् ॥ २।२।६५॥ युक्ताश्चतुर्थों वा ॥ आतुराय आतुरस्य वा हितं सुख वा ।। तद्भद्रायुष्यक्षेमार्थाऽर्थेनाशिषि ॥२।२।६६ ॥
गम्यायां युक्ताचतुर्थी वा ॥ हितं पथ्यं सुखं शं भद्रमायुष्यं क्षेमें कुशलमर्थः कार्य वा जीवेभ्यो जीवानां वा भूयात् ॥
परिक्रयणे ॥२।२।६७ ॥ वर्तमानाचतुर्थी वा ॥ शताय शतेन वापरिक्रीतः। परीति किम् ?। शतेन क्रीणाति । करणाश्रयणं किम् ? । शताय परिक्रीतो मासम् । मासान्माभूत् ॥ शक्तार्थवषड्नमास्वस्तिस्वाहास्वधाभिः॥२।२।६८॥ ___ युक्तानित्यं चतुर्थी ॥ शक्तः प्रभुर्वा मल्लो मल्लाय । वषडग्नये । नमोऽर्हद्भ्यः । स्वस्ति प्रजाभ्यः । इन्द्राय स्वहा । पितृभ्यः स्वधा । आशिषि परत्वानित्यमेव । स्वस्ति संघाय भूयात् ।।
पञ्चम्यपादाने ॥ २ । २ । ६९ ॥ प्रामादागच्छति ॥
आङावधौ ।। २।२। ७०।। युक्ताद् वर्तमानात् पञ्चती ॥ आपाटलिपुत्राद् दृष्टो मेघः । आ कुमारेभ्यो पशो गर्न गौतमस्य ।