________________
www
- ~
-
-
-
-
-
-~-~n
~
~
~
~
~
~
~
~
(२४) श्रीलघुहेमप्रभाव्याकरणम् नमस्कृत्य । पुरस्कृत्य । गतेः किम् ? । नमःकृत्वा । साक्षादादिअन्यर्थे नमसो वा गतिसंज्ञा॥
तिरसो वा ॥ २।३।२॥ गतेरस्य कखपफि सः॥ तिरस्कृत्य । तिरःकृत्य । गतेः किम् ?। तिरस्कृत्वा काष्ठं गतः॥
शिरोऽधसःपदे समासैक्ये ॥ २ ॥ ३ ॥ ४॥
र: सः॥ शिरस्पदम्। अधस्पदम् । समासे किम् ?। शिरः पदम् । ऐक्य इति किम् ? । परमशिरः पदम् ॥
अतः कृकमिकंसकुम्भकुशाकर्णीपायेऽनव्ययस्य। २।३। ५॥
रः सः समासैक्ये ॥ अयस्कृद । यशस्कामः । अयस्कंसः । पयस्कुम्भः । अयस्कुशा । अयस्कर्णी । अयस्पात्रम् ॥
प्रत्यये ॥ २।३।६॥ अनव्ययस्य रस्य पाशकल्पके सः ॥ पयस्पाशम् । पयस्कल्पम् । यशस्कम् ॥
रोः काम्ये ॥ २ । ३।७॥ अनव्ययस्य रोरेव सः॥ पयस्काम्यति । नियमः किम् ? । अहः काम्यति ॥
नामिनस्तयोः षः॥२।३।८॥ सर्पिष्पाशम् । सर्पिष्काम्यति । तयोरिति किम् ?। मुनिः