________________
(२५८)
श्रीलघुहेबमभाव्याकरणम्.
तस्य भावे यण् । आधिपत्यम् । अधिपतित्वम् । अधिपतिता । एवमाधिराज्यम् ३ । मौढ्यम् ३ । राज्यम् ३ । काव्यम् ३ | राजादिराकृतिगणः ॥
अर्हतस्तो न्तु च ॥ ७ । १ । ६१ ॥
तस्य भावे कर्मणि च द्व्यण् । आईन्त्यम् । आर्हन्ती । अईत्वम् । अर्हता ॥
सहायाद्वा ।। ७ । १ । ६२ ।।
तस्य भावे कर्मणि च द्व्यण् । साहाय्यम् । पक्षे साहायकम् । मा त्वादिति त्वतौ । सहायत्वम् । सहायता ॥ सखिवणिग्दूताः ॥ ७ । १ । ६३ ॥
तस्य भावे कर्मणि च । सख्यम् । सखित्वम् । सखिता । वणिज्या । वणिज्यम् । वणिक्त्वम् । वणिकूता । वाणिज्यम् । दूत्यम् । दूतत्वम् । दूनता । दौत्यम् ।
स्तेनान्नलुकु च ॥ ७ । १ । ६४ ॥
वस्य भावे कर्मणि च यः । स्तेयम् ४ ॥
कपिज्ञातेरेयण || ७ | १ । ६५ ॥ तस्य भावे कर्मणि च । कापेयम् ३ । ज्ञातेयम् ३ ॥ प्राणिजातिवयोऽर्थादञ् ॥ ७ । १ । ६६ ॥
तस्य भावे कर्मणि च । आश्वम् ३ । कौमारम् ३ ॥ युवादेरण || ७ | १ | ६७ ॥
वस्य भावे कर्मणि च । यूनो लिङ्गविशिष्टस्य ग्रहणाद् युवतेर्षा भावः कर्म वा यौवनम् ३ । स्थाविरम् ३ ॥