________________
(२३८) मीहेममभाव्याकरणम...... इकण् । यौगिकः । सान्तापिकः ॥ -
योगकर्मभ्यां योको ॥६। ४ । ९५ ॥ चतुर्थ्यन्ताभ्यां शक्ते । योग्यः । कार्मुकम् ॥
यज्ञानां दक्षिणायाम् ॥ ६ । ४ । ९६ ॥ इकण । आग्निष्टोमिकी ॥
तेषु देये ॥६। ४ । ९७॥ यज्ञार्थेभ्यः सप्तम्यन्तेभ्यो देये इकण । आग्निष्टोमिकम् । वाजपेयिकं भक्तम् ॥
काले कार्ये च भववत् ॥६।४।९८॥ देये प्रत्ययः । यथा वर्षासु भवं वार्षिकम् तथा कार्य देयं च ॥
व्युष्टादिष्वण ॥ ६ । ४ । ९९ ॥ देये कार्ये च । वैयुष्टम् । नैत्यम् ॥ - यथाकथाचापणः ॥६।४ । १००॥ देये कार्ये च । याथाकथाचम् ॥
तेन हस्तायः ॥ ६ । ४ । १०१ ॥ देये कार्य च । इस्त्यम् ॥
शोभमाने ॥ ६ । ४ । १०२ ॥ टान्तादिकण । कार्णवेष्टकिक मुखम् ॥
कर्मवेषाद्यः ॥६।४।१०३ ॥ टान्ताच्छोभमाने । कर्मण्यं शौर्यम् । वेष्यो नटः ॥ कालात्परिजय्यलभ्यकार्यसकरे ॥ ६ । ४ । १०१॥