________________
स्वरसन्धिप्रकरणम्.
शिटो द्वित्वम् || दर्शनम् ||
स्वोऽपदे वा ॥ १ ॥ २ । २२ ॥
वर्णादीनामस्त्रे स्वरे निमित्तनिमित्तिनौ ॥ नदि एषा । हस्वविधानादसन्धिः । अत एव हस्वस्यापि ह्रस्वः । नग्रेषा । अपदे किम् ? | नद्यौ | नयर्थः ॥
1
एदैतोऽयाय् ॥ १ । २ | २३ ॥
स्वरे ॥ नयनम् । नायकः ॥
ओदौतोsara || १ | २ | २४ ॥
( ११ )
स्वरे || लवनम् | लावकः ॥
स्वरे वा ॥ १ । ३ । २४ ॥ अवर्णभोभगोऽघोभ्यः परयोः पदान्तस्थयोर्वययोर्लुक् ॥ लुक्यसन्धिः । पट इह । पटविह । त इह । तयिह ॥
य्यक्ये || १ | २ | २५ ॥
ओदौतोः अवावौ प्रत्यये ॥ गव्यम् । नाव्यति । अक्य इति किम् ? | औयत । प्रत्यये किम् ? । गोयुतिः। क्रोशद्वये पृषोदरादित्वात् गव्यूतिरिति ॥
क्षय्यजय्यौ शक्तौ ॥ ४ । ३ । ९० ॥
शक्तौ कि ? | क्षेयम् । जेयम् ॥
ऋय्यः क्रयार्थे ॥ ४ । ३ । ९१ ॥