________________
कत्यतुल्यालयमजात्या ॥३।१।११४ ॥
समासस्तत्पुरुषः कर्मधारयश्च । भोज्योष्णम् । स्तुत्यपटुः। - ल्यसन् । सदृशमहान् । अजात्येति किम् ? । भोज्य ओदमः ॥
कुमारः श्रमणादिना ॥३।१ । ११५ ॥ समासस्तत्पुरुषः कर्मधारयश्च । कुमारश्रमणा । कुमारप्रव्रजिता ॥
मयूख्यंसकेत्यादयः ॥३।१ । ११६ ॥
एते तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः। कम्बोजमुण्डः। एहीडादयोऽन्यपदार्थे । एहीडं कर्म । आख्यातमाख्यातेन सातत्ये । अनीतपिवता । ह्यन्तं स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्तरि समासाभिधेये । कुरुकटो वक्ता । गतप्रत्यागतादयः । गतमत्यागतम् । क्रयकयिका। शाकपार्थिवादयः । शाकपार्थिवः । दध्योदनः । गुडधानाः। त्रिभागः । सर्वश्वतः ॥
राजदन्तादिषु ॥३।१ । १४९ ॥ अप्राप्तवाग्निपातं माक् स्यात् । राजदन्तः। लिप्सावासितम् । जम्पती । दम्पती। जायापती। गणपाचज्जायाशब्दस्य-जाभावो दम्भावश्च वा निपात्यते ॥
कडारादयः कर्मधारये ॥ ३ । १ । १५८ ॥
प्राग्वा स्युः ॥ कडारजैमिनिः । जैमिनिकडारः। काणद्रोणः । द्रोणकाणः ॥ जातमहवृद्धादुक्ष्णः कर्मधारयात् ॥ ७ । ३ । ९५॥
अत् समासान्तः । जातोक्षः । महोक्षः । वृद्धोक्षः। कर्मधारयादिति किम् ? ! जातस्योक्षा जातोक्षा ॥...
स्त्रियाः पुंसो द्वन्द्वाच्च ॥ ७।३ । ९६ ॥