________________
समासपकरणम्
(१२७)
vvvvvvvvvvvvvvvvvvvvvvv VvvvvNTVMUVAVVV.
एकार्थमुपमानवाचिभिः समासस्तत्पुरुषः कर्मधारयश्च स्यात् ॥ पुरुषव्याघ्रः । श्वसिंही। साम्यानुक्ताविति किम् ?। पुरुषव्याघ्रः शूर इति माभूत् ॥
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् ॥३। १ । १०३॥
एकार्थ नाना समासस्तत्पुरुषः कर्मधारयश्च । पूर्वपुरुषः । अपरपुरुष इत्यादि ॥
वोत्तरपदेऽद्धं ॥ ७। २ । १२५ ॥ अपरस्य केवलस्य दिक्पूर्वपदस्य च पश्चः॥ पश्चाईम् । अपरार्द्धम् । दक्षिणपश्चाईः ॥
श्रेण्यादि कृतायेच्व्यर्थे ॥३।१। १०४ ॥ एकार्थ गम्ये समासस्तत्पुरुषः कर्मधारयश्च ॥ श्रेणिकृताः । ऊककृताः । व्यर्थे इति किम् ? । श्रेणयः कृताः ॥
क्तं नादिभिन्नैः ॥ ३ । १ । १०५ ॥
एकार्थ समासस्तत्पुरुषः कर्मधारयश्च । कृताकृतम् । अशितानशितम् । पीतावपीतम् । क्तमिति किम् ?। कर्त्तव्यमकर्त्तव्यं च । नादिभिन्नैरिति किम् ? । कृतं प्रकृतम् ॥ . सेट् नानिटा ॥३।१ । १०६ ॥
तान्तं नमादिभिन्नेन न समस्यते । पूर्वापवादः । क्लिशितमक्लिष्टम् । शितमशातम् । सेडिति किम् ? । कताकृतम् । अनिटेति किम् ?। अशितानशितम् ॥ सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ॥ ३।१।१०७॥ पूज्यवचनैः समासस्तत्पुरुषः कर्मधारयश्च । सत्पुरुषः। महापुरुषः।