________________
(११२)
भोरचुहेमनमायाकरणम्.
स्यादेः॥ उन्मत्तगङ्ग देशः। अत इति किम् ?। अधिनि । अपञ्चम्या इति किम् ? । उपकुम्भात् ।।
वा तृतीयायाः ॥३।२।३॥ अतोऽव्ययीभावस्याम् ॥ किं न उपकुम्भेन । उपकुम्भम् । तत्सम्बन्धिन्या इति किम् ?। किं नः प्रियोपकुम्भेन ॥
सप्तम्या वा ॥३।२।४॥ अतोऽव्ययीभावस्याम् ॥ उपकुम्भे। उपकुम्भम् । तत्सम्बन्धिन्या इवि किम् ?। प्रियोपकुम्भे ॥
ऋद्धनदीवंश्यस्य ॥३।२। ५॥ एतदन्तस्याव्ययीभावस्यादन्तस्य सप्तम्या अम् ॥ सुमगधम् । उन्मत्तगङ्गम् । एकविंशतिभारद्वाज वसति । प्रतिपदोक्तस्यैव ग्रहणादिह न । उपगङ्गे ॥
अनतो लुप् ॥ ३ । २।६॥ अव्ययीभावस्य स्यादेः ।। उपवधु । अनत इति किम् ? । उपकुम्भात् । तत्सम्बन्धिविज्ञानादिह न । प्रियोपवधुः ॥
. संख्या समाहारे ।।३।१।२८ ॥ नदीभिः सहाव्ययीभावः समासः ॥ द्वियमुनम् । पञ्चनदम् । समाहारे किम् ? । एकनदी॥
वंश्येन पूर्वार्थे ॥ ३ । १ । २९ ॥ सङ्ख्या समस्यते सोऽव्ययीभावः ॥ विद्यया जन्मना वा एकसन्तानो वंशः। एकमुनि व्याकरणस्य । सप्तकाशि राज्यस्य। विद्यया तताममेदविवक्षायामेकमुनि ब्याकरणम् । पूर्वार्थ इति किम् ?। द्विसुनिकं व्याकरणम् ॥