________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર संविग्नबहुजनाचीर्णमिति द्विरूपोऽवगंतव्य इति तत्रागमो वीतरागवचनं । उक्तं च -
आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद्धत्वसंभवात् ॥१॥ तस्य नीतिरुत्सर्गापवादरूपा शुद्धसंयमोपायः स मार्गः । उक्तं च - यस्मात् प्रवर्तकं भुवि निवर्तकं चांतरात्मानो वचनम् । धर्मश्चैतत्संस्थौ मौनीन्द्रं चैतदिदं परमम् ॥१॥
अस्मिन् हृदयस्थे सति हृदयस्थितो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धेरिति । तथा संविग्ना मोक्षाभिलाषिणो ये बहवो जना अर्थादीतार्था इतरेषां संवेगायोगात्तैर्यदाचीर्णमनुष्ठितं क्रियारूपं । इह च संविग्नग्रहणमसंविग्नानां बहूनामप्य प्रमाणतां दर्शयति तद्व्यवहारः । जं जीयमसोहिकरं पासत्थपमत्तसंजयाइहिं । बहूहि वि आयरियं न पमाणं सुद्धचरणाणं ॥१॥ इति
बहुजनग्रहणं संविग्नोऽप्येकोऽनाभोगानवबोधादिभिर्वितथमप्याचरेत्ततः सोऽपि न प्रमाणमित्यतः संविग्नबहुजनाचरितं मार्ग इत्यत एवाह - उभयानुसारिणी याऽऽगमबाधया संविग्नव्यवहाररूपा सा मार्गानुसारिणी क्रियेती आह आगम एव मार्गो वक्तुं युक्तो, बहुजनाचीर्णस्य पुनर्मार्गकरणमयुक्तं शास्त्रांतरविरोधादागमस्य चाप्रामाण्यात्तैः । तथाहि - बहुजणपवित्तिमित्तं इच्छंतेहिं इहलोइओ चेव । धम्मो न उज्झियव्वो जेण तहिं बहुजणपवित्ति ॥१॥
ता आणाणुगयं जं तं चेव बुहेण होई कायव्वं किमिह बहुजणाणेणं हंदि नासयच्छिणो बहुया तथा जिटुंमिविद्यमाणे उचिए अणुजिट्ठ