________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
૬૩
संविग्ना मुमुक्षवो मोक्षाभिलाषिणो गीयतमेत्ति पदैकदेशे पदप्रयोगो यथा भीमसेनो भीम इति ततो गीतार्थाः तमपि प्रत्यये गीतार्थतमा इति भवंत्यतिशयगीतार्था इति भावस्तत्काले बहुतमागमसद्भावात् ॥ तथा विधिरसो विद्यते येषां विधिरसिकाः विधिबहुमानिनः संविग्नत्वादेव पूर्वसूरयश्चिरंतनमुनिनायका आसन्नभूवन् । तैरदूषितमनिषिद्धमाचरितं सर्वधार्मिक लोकव्यवहृतमनतिशयिविशिष्टश्रुतत्वादवध्याद्यतिशयविकलः को निवारयति ? पूर्वपूर्वतरोत्तमाचार्याशातनाभीरुर्न कश्चिदिति ॥ तथैतदपि गीतार्था: परिभावयन्ति ॥
अइसाहसमेयं जं, उस्सुत्तपरूवणा कडुविवागा । जाणते हि विदिद्यइ, निद्देसो सुत्तबज्झत्थो ॥ १०१ ॥
ज्वलज्ज्वालानलप्रवेशकारिनरसाहसादप्यधिकमतिसाहसमेतद्वर्त्तते यदुत्सूत्रप्ररूपणा सूत्रान्निरपेक्षदेशना कटुविपाकादारुणफला विजानद्भिरवबुध्यमानैरपि दीयते वितीर्यते निर्देशो निश्चयः सूत्रबाह्ये जिनेन्द्रागमानुक्तेऽर्थवस्तुविचारे । किमुक्तं भवति ?
दुज्झासिएण इक्केण, मिरीइ दुक्खसागरं पत्तो । भमिओ कोडाकोडिं सागरसरिनामधेयाणं ॥ १ ॥ उस्सुत्तमायरंतो, बंधड़ कम्मं सुचिक्कणं जीवो । संसारं च वड्डीइ मायामोसं च कुव्वइ य ॥ २ ॥ उम्मग्गदेसर मग्गनासउ गूढहियय । माइल्लो य ससल्लो, तिरियाउं बंधए जीवो ॥३॥ उम्मग्गदेसणाए चरणनासं ति जिणवरिंदाणं ।
वावन्नदंसणा खलु न हु लब्भा तारिसा दट्टं ॥४॥ इत्याद्यागमवचनानि श्रुत्वापि स्वाग्रहग्रस्तचेतसो यदन्यथान्यथा व्याचक्षते विदधति च तन्महासाहसमेवानर्वाक् अपरासारसंसार