________________
श्रीवस्तुसार
चरित्रम्
॥ ४॥
तृता खलु ।। ५७ ।। यस्याः पिता वदत्येवं प्रत्यक्षमसञ्जसम् । कथं ? सुकोमला सा तु मया सार्धं समेष्यति ॥ ५८ ॥ किं करोमि क्व गच्छामि, कस्याग्रे पूत्करोम्यहम् । गृहे जामातरं धिधिक् धिक् तस्य जीवितं मम ॥ ५९ ॥ कियत्यपि गते काले, कस्मै प्रयोजनाय च । वस्तुसारो गतो प्रामे श्वशुरस्य निदेशतः ।। ६० ।। प्रत्यागच्छति सः सारः कार्यं कृत्वा पुरं प्रति । शान्तिपुरे वसन् कोऽपि, मार्गे च मिलितस्तदा ।। ६१ ।। पृच्छति स्म तकं सारः, जनन्याः कुशलं मम । प्रत्युवाच तदा सोऽथ, ते माता मृत्युसन्मुखा ।। ६२ ।। ततः शान्तिपुरे शीघ्रं गच्छ त्वं मातुरन्तिके । स्नेहार्द्रचित्तः श्रुत्वैवमागात् शीघ्रं जनीं प्रति ॥ ६३ ॥ दुःखान्वितां जनीं दृष्ट्वा, वस्तुसारोऽतिदुःखितः । पुत्रं दृष्ट्वा प्रसूः प्राह जीवितमन्त्यमेव मे ॥ ६४ ॥ न दृष्टं पौत्रवक्त्रं तु, न दृष्टं च वधूमुखम्। एवं मातुर्गिरिं श्रुत्वा वस्तुसारोऽरुदीद च ।। ६५ ।। मया मूढेन नोऽकारि, जनीकार्यं हि जन्मनि । हाकि मे पुरुषत्वेन, यस्यैतदपि दुःशकम् ।। ६६ ।। उक्तं च-" उढो गर्भः प्रसवसमये सोढमत्युग्रशूलं, पथ्याहार, स्नपनविधिमिः स्तन्यपानप्रयत्नैः । विष्ठामुत्रप्रभृतिमलिनैः कष्टमासाद्य सद्यस्त्रातः पुत्रः कथमपि यया स्तूयतां सैव माता ।। ६७ ।। " एकं साप्तपदीनं च, सारो गदति हे सखे ! त्वं श्वशुरगृहे याहि, प्रत्यानय सुतादिकम् ॥ ६८ ॥ मित्रं वदति हे सार !, तत्र याहि त्वमेव हि । तत्राऽहं किं करिष्यामि, विचित्रः श्वशुरः श्रुतः ।। ६९ ।। परिचयां करिष्यामि, तस्माद्गच्छ त्वमेव हि । लात्वा पुत्रादिकं शीघ्र-मागच्छ मातुरान्तिके ।। ७० ।। पुत्रादि ग्रहणार्थं च वस्तुसारस्तदा गतः । विशन्तञ्च गृहं सारं बभाषे सोमिलो द्विजः ॥ ७१ ॥ स्तोककार्ये विलम्बस्ते, मूढ ! कुतो बभूव रे । जगाद वस्तुसारोऽथ, जनीं मे व्याधिपीडिता ॥ ७२ ॥ अन्त्यावस्था तदीयैव कुटुम्बं द्रष्टुमिच्छति । तस्मात् पुत्रादिकं नीत्वा, तत्र गन्तास्मि सत्वरम् ॥ ७३ ॥ श्वशुरोऽथ जगादेवं विस्मृतं किं वचो मम । ममेतौ तु सुतापुत्रौ, नेतुं शक्नोषि नो क्वचित् ॥ ७४ ॥ उवाच वस्तुसारोऽथ किं वदसि द्विजोत्तम! ईदृशे समये त्वीक, प्रजल्पन् किं न लज्जसे ।। ७५ । स्त्रीपुत्रौ च ममैत्र स्तः, नाधिकारस्तयोस्तत्र । सोमिलः प्राह द्वारिस्थं, जल्पकं कुटतु त्वमुम् ॥ ७६ ॥ करं धृत्वा च भृत्येन पातितो भूतले लघु । यष्टि मुष्टि प्रहारेण, प्रहृतोऽसौ सुनिर्दयम् ॥ ७७ ॥ काकनाशं प्रणश्यन् हि, समा
॥ ४ ॥