________________
श्रीवस्तुसार
चरित्रम्
| ताज, दृष्ट्वेत्यचिन्तयाजमाता सुकुलोद्भवः ॥ १८ ॥ मदालयामास सर्वतः। परं प्राप्नोति नदिकरीनो बाप, सुखे
॥२॥
oncercamereceDee
इन्द्रपुरसमानं वै, देवपुरं महापुरम् ॥ १४ ॥ तत्र देवयशो राजा, पुरोहितश्च सोमिलः । सोमिला तस्य भार्यास्ति, सीललावण्यशोभिता ॥ १५ ।। सुकोमलाऽभिधा कन्या, रुपेण रतिसन्निभा । नम्रतादिगुणोपेता, तयोर्जाता सुलक्षणा ॥ १६ ॥ संप्राप्तयौवनां | ताश्च, दृष्ट्वेत्यचिन्तयद्विजः । एतद्योग्यो वरः कोऽपि, दर्शनीयो मयाऽधुना ॥ १७ ॥ सन्ततिर्मे न काप्यस्ति, विना पुत्र्यामया खलु । तस्मात् सुगुणसंयुक्तः, जामाता सुकुलोद्भवः ॥ १८ ॥ मदालये वसेद्यो हि, मुक्त्वा पित्रादिकं सदा, तस्मै कन्या मया देया। कस्मै चिन्नान्यसूनवे ॥ १९ ॥ (युग्म) एवं विधं वरं सोऽथ, मृगयामास सर्वतः। परं प्राप्नोति न क्वाऽपि, चिन्ता चिते च वर्धते ॥ २० ॥ भाषायां-“सुखे न सुवे धननो धणी, सुखे न सुवे जेने चिन्ता घणी । सुखे न सुवे दिकरीनो बाप, सुखे न सुवे जेना घरमां साप ॥ २१ ॥” इतः कोऽपि मनुष्योऽथ, समेत्योवाच सोमिलम् । आसीच्छान्तिपुरे स्वामिन् !, विश्वभूतिपुरोहितः ॥ २२ ॥ वस्तुसारः सुतस्तस्य, षोडशवार्षिकः सुधीः । जनीसहित एवास्ति, कन्यायोग्यो मयेक्षितः ॥ २३ ॥ कथंचिद्बोधयित्वा तन् , मातरं सारं भवान् । ददातु वस्तुसाराय, कन्यकां स्नेहलामपि ॥ २४ ॥ पुरोधसा तदर्थच, प्रेषिता वाग्मिनो लधु । गत्वा शान्तिपुरे तेऽपि, प्रोचुः तन्मातरं मुदा ॥ २५ ॥ देवपुरे प्रसिद्धो यः, सोमिलोऽस्ति पुरोहितः। द्विजोतमो नरेशस्य, मान्यो गुणविभूषणः ॥ २६ ॥ तस्यैका सुभगा पुत्रो, लावण्यरुपशोभिता । युवावस्थाञ्च संप्राप्ता, लग्नयोग्याऽधुनाऽस्ति वै ।। २७ ।। श्रुत्वा योग्य भवत्पुत्रं, वस्तुसारं गुणान्वितम् । प्रेषिताः सोमिलेनात्र, समेता वरलिप्सुना ॥२८॥ एकैव तस्य कन्यास्ति, प्राणेभ्योऽत्यन्तवल्लभा । जामाता मद्गृहे तिष्ठेदित्येवेच्छति सोमिलः ॥ २९॥ निर्मलोवाच भो विप्राः!, एकपुत्रो ममाऽपि च । कथङ्कारं गृहे तस्य, तत्पुत्रं प्रददाम्यहम् ॥ ३० ॥ विप्राः प्रोचुरये सुच, तव स्थितिस्तु निर्बला । कथं विवाहसंबन्धं, करिष्यसि द्विजालये ।। ३१ ।। भूषणानि च वस्त्राणि, ब्रह्मभोजनकान्यपि । सर्वाणि लग्नकार्याणि, विना द्रव्यं कथं भवेत् ॥ ३२ ॥ अन्यापि वस्तुसारस्य, प्राध्ययनविधायिनी । पाठकादिसुसामग्री, नास्ति सुखपुरःसरम् ॥ ३३ ॥ द्रव्याभावेन सुष्ठुत्व-मस्मिन् कार्ये विचारय । धनं कन्या च विज्ञानं, सर्व तत्र भविष्यति ॥ ३४ ॥ एवं युक्तिप्रयुक्तिभ्यां, मातुरादाय सम्मतिम् । गत्वोपवस्तुसारं ते, तन्मतं जगदुः तदा ॥३५॥
coredevercreenCareereezeeo
॥२॥