________________
श्रीरत्नपाल
चरित्रम्
भद्र !, दुःखमूलं हि सुन्दरी ॥ १२० ॥ नागमिष्यत् तदा राजा, भविष्यजन्मनिष्फलम् । दारसंगे कृते किं तु, महादुःखं भवे भवे ।। १२१ ।। अस्मिन्नपि भवे दुःखं, गृहोपस्करपूरणे । यदीच्छा ते सुखस्यास्ति, गृहाण संयम मुदा ॥ १२२ ॥ चन्द्रो जगाद हे स्वामिन् !, सुखे मम प्रयोजनम् । भावनाऽपि सुखस्याथ, ततो यच्छतु संयमम् ॥ १२३ ॥ सूरिरुवाच भोश्चन्द्र !, किञ्चिदध्ययनादिकम् । उषित्वा मम पार्श्व त्वं, कुरुष्व मुनिभिस्सह ।। १२४ ॥ चन्द्रो जगाद हे स्वामिन् !, भवत्सार्थे वसाम्यहम् । भोजनस्य प्रबन्धस्तु, कया रित्या भविष्यति ॥ १२५ ।। नाई द्रयव्ययं कर्तुं, समर्थोऽस्मि मनागपि । सूरिराह न कर्तव्या, चिन्ता तु भोजनादिके ॥ १२६ ॥ साधु सार्थे भवेत् कोऽपि, तस्य चिन्ता तु श्रावकाः । सुतादिवच्च कुर्वन्ति, निश्चिन्तो भव तेन हि । | ॥ १२७ ॥ चन्द्रोऽथ सूरिणा साधे, विहारं च सदाऽकरोत् । द्रव्यं बद्ध्वा सकट्यां च, निश्चिन्तमनसा सुखं ॥ १२८ ॥ साधुयोग्यं क्रियालापं, जीवादितत्त्वविस्तरम् । चन्द्रः पठितवान्सोऽथ, स्वल्पकालेन यत्नतः ॥ १२९ ॥ चन्द्रो वैराग्यभावेन, सूरि विज्ञप्तवांस्तदा । संयमं यच्छतु स्वामिन् !, योग्यता यदि मे भवेत् ॥ १३० ॥ सूरिः प्राह गमिष्यामः, वसन्तपुरपत्तने । तत्र दीक्षां प्रदास्यामि, यदि श्राद्धस्य भावना ॥ १३१ ॥ तत्रानुमोदना भावि, शासनस्य प्रभावना । या सम्यक्त्वस्य मूलं हि, कीर्तितञ्च बहुश्रुतैः ॥ १३२ ॥ सूरि सपरिवारञ्च, वसन्तपुरपत्तने । श्राद्धाः प्रावेशयन् भूरिविज्ञप्तिसमहाहैः ॥ १३३ ॥ देशनां विदधे सूरिः, भव्यानामुपकारिणीम् । श्रुत्वा सर्वे जनाः लुब्धाः, देशनाश्रवणे सदा ॥ १३४ ॥ पञ्चाष्टकदिने जाते, श्रावका मुनिपं जगुः । चातुर्मास्यं तु अत्रैव, कर्तव्यं मुनिपुंगव ! ॥ १३५ ॥ तेन धर्मप्रभावश्च, लोके विस्तरमेष्यति । सुरिरुवाच भोः श्राद्धाः, युष्माकं भावना शुभा ॥ १३६ ॥ श्रावकाः जगदुः स्वामिन् !, संघाग्रणीश्च वर्तते । रत्नपालाभिधः श्रेष्ठी, विख्यातो नगरे सदा ॥ १३७ ॥ द्रव्योपार्जनरक्तोऽसौ, उपाश्रये च मन्दिरे। द्रव्यव्ययभयाच्छेष्ठी, नायाति कृपणः कदा ॥ १३८ । इभ्यं विना न विज्ञप्ति, कर्तुमीशा वयं प्रभोः। सूरिरुवाच यास्यामि, विज्ञप्ताच्छा न मे खलु ।। १३९ ॥ श्राद्धा उचुस्तदा स्वामिन् !, तं श्रेष्ठिनं प्रबोधय । येन बुद्धो भवेद्धर्मी, धर्मकार्ये सहायकृत् ॥ १४० ॥ सूरिराह गृहे तस्य, यामि कि बोधनाय भोः !। उपाश्रये न
RecenameReDeceDeceme
जगुः । चातुर्मास्यं तु अब
जगदुः स्वामिन् !, संघाप्रणाति कृपणः कदा ॥ १३८
॥१५॥