________________
श्रीवस्तुसार
चरित्रम्
॥६॥
धुना ॥ ९९ ॥ धात्र्यवदत् सुतामेवं, पुराहि कथितं मया । एकाकिनि वनेऽत्राहं, तमस्विन्यां करोमि किम् ॥ १०० ॥ यावत्तयो - मिथो वार्ता, तावत् पुण्योदयेन हि । प्रयान्तस्तु तदा केचित्, शाकटिकाः समागता ॥ १०१ ॥ शाकटिकाञ्जगौ धात्री, यूयं कुत्र गमिष्यथ । प्रत्युत्तरं ददत्येवं व्रजामः शान्तिपत्तनम् ॥ १०२ ॥ धात्र्यवदच्च हे भ्रातः विश्वभूतेरियं स्नुषा । गन्त्रीमध्ये पथि श्रान्ता, वराकी नीयते त्वया ।। १०३ ॥ शाकटिको वदत्येवं, गन्त्र्यामारोहतु स्वयं | आरुह्य शकटे द्वे तु, शान्तिपुरं प्रतीयतुः ॥ १०४ ॥ प्रामाद्वहि समुत्तिर्य, प्रहित्वा तं शिशुं तदा । विश्वभूतेर्गृहं पृष्ट्रवा गच्छतस्ते शनैरशनैः ॥ १०५ ॥ श्वश्रूं द्रष्टुं गृहे याति तावत् प्राप्तां यमालयम् । श्मशाने नीयमानां तां पश्यति सोद्यमैर्जनैः ॥ १०६ ॥ मूच्छिता प्राप्तसंज्ञा सा वक्षस्तदेव कुट्टति । शबोपरि सुतं मुक्त्वा, क्रन्दते च महास्वरैः ||१०७ || लोका गदन्ति तामार्ती, मृता श्वश्रू तवैव हि । कदा को न मृतो जीवेत्, ततस्तापं त्यज वृथा ॥ १०८ ॥ सद्यो धवं भज त्वं तु, मुमूर्षुरस्ति सोऽधुना । श्रुत्वैवं वस्तुसारस्य सन्निधौ त्वरितं गता ॥ १०९ ॥ समेत्य मूच्छितं दृष्ट्वा पृच्छाति सान्तिकान् जनान् । ज्ञात्वा तत् कारणं तेभ्यः, वक्तिः पत्युः श्रुताविति ॥ ११०॥ इयं सुकोमला स्वामिन्, आगतास्ति तवान्तिके । दृष्टः पुत्रो जनन्या वै, तस्मात् पुत्रं विलोकय ॥ १११ ॥ तस्यां बाढं प्रजल्पन्त्यां लब्धसंज्ञो यदाभवत् । स्त्रीवचसा तदा तस्य, स्वरपरिचयोऽभवत् ॥ ११२ ॥ अथोन्मीलितनेत्रश्च पश्यति च सुकोमलाम् । साह दयां विधायार्य !, स्त्रियं पश्य सपुत्रकाम् ।। ११३ ॥ संप्राप्तो विशदां शुद्धिं पश्यति च सुतादिकम् । वस्तुसारो द्विजः सोऽथ, प्राप सौस्थ्यं शनैरशनैः ॥ ११४ ॥ सोमिलो लोकिकार्थं द्रागू, वस्तुसारगृहे तदा । आगतः सोमिलायुक्तो, लोकाचारो महान्यतः ॥ ११५ ॥ शोके प्रतिनिवृत्तेऽथ, सारं वदति सोमिलः। गम्यते तत्र सर्व विलंब मा कुरु वृथा ।। ११६ ॥ बभाषे वस्तुसारोऽथ, कोमलाजनकं प्रति । तत्राहं नागमिष्यामि, अस्मिन् जन्मनि निश्चितम् ॥ ११७ ॥ आगच्छेत् यदि ते पुत्री, तदा सुखेन तां नय । वर्तते हि ममानुज्ञा, यथारुचि तथाकुरू ॥ ११८ ॥ जगाद सोमिलः पुत्रि, एहि नाम निजे गृहे । सुकोमला जगावेवं यत् स्थिताऽहं निजे गृहे ॥ ११९ ॥ अस्मिन् जन्मनि हे तात, नागमिष्यामि ते गृहे । घृतं विनापि भक्तं हि मन्येहममृतोपमम् ॥ १२० ॥ शुष्कान्नेन सदात्रैव, निर्गमि
॥ ६॥