________________
द्युपसंहार: ] स्वोप-प्रेमप्रभावृत्तिसुशोभिता भवस्थितिः[ २३
(प्र०) "मंदमह." इत्यादि, 'अत्र' अस्मिन् प्रस्तुते भवस्थितिसंज्ञके प्रकरणे यत्तदोनित्यसम्बन्धाद् यच्छब्द आक्षिप्यते यत्किमपि भन्दमत्यनुपयोगादिहेतुना' मन्दा-जाडया चासो मतिः बुद्धिर्मन्दमति: अप्रगल्भशेमुषी न उपयोगा=चित्तैकाग्रता अनुपयोगः असावधानता, मन्दमतिश्चा-ऽनुपयोगश्च मन्दमत्यनुपयोगी, तौ आदौ येषाम् ; ते मन्दमत्यनुपयोगादयः, अत्राऽऽदिपदेन छामस्थ्य-दृष्टिदोषादयो ज्ञेयाः, त एव हेतुः, मन्दमत्यनुपयोगादिहेतुस्तेन मन्दमत्यनुपयोगादिहेतुना-ऽऽगमविरुद्धं शास्त्रबाह्य स्यात्तद् मयि ममोपरि कृपा प्रसादं कृत्वा विधाय श्रुतनिधयः श्रुतागमशालिनः शोधयन्तु अशुद्धपदनिराकरणेन शुद्धपदानयेन शुद्धिं कुर्वन्तु ॥१७॥ प्रेमप्रमाख्यवृत्त्या, . सुशोभिता प्रेमसूरिगणे ।। मुनिवीरशेखरेण, स्वोपज्ञभवस्थितिश्चैषा ॥१॥ कुशलं तया यदाप्तं,तेन कुशलमस्तु विश्वविश्वस्य। यत्किमपीह क्षुण्णं, स्यात्तच्छोध्यं बुधैविधाय कृपाम ।२।। ॥इति प्रेम प्रभावृत्तिः समाप्ता॥ इति ..
..
स्वोपज्ञप्रेमप्रभावृत्तिसुशोभिता मुनिशीवारशेखर নিত্যানার भवस्थितिः
समाप्ता