________________
TILAKAMAÑARI OF DHANAPĀLA
and Sarabhas etc.' On the west of the Astāpadasaila not far away from Vaitādhya mount, was a mountain named Ekaśộnga of many peaks beatific and covered by creeper arbours, having its innumerable caverns reverberous
1. अथावबुद्धतदभिप्रायः प्रयाणशुद्धिमिव प्रष्टुमुपससर्प परिणतज्योतिषमतुषारदीधितिमस्त (स) मयूराण:
प्रस्थानवन्दनमालाकिशलयानीव ग्रहीतुमवनीतलाग्रशिखरेषु शाखिनामारुरुहुरातपच्छेदाः, शुभेतरालापसंवरणपरेव विस्तारिता निबद्धकोलाहलानि शकुनिकुलानि तरुकुलायकोटरेष्वसुषूपदुपवनराजिः लग्नशुद्ध्यर्थमनेकशो दृष्टसलिलाकृष्टिसामर्थ्यमपराम्भोधिजलकटाहे तपनमण्डलघटीताम्रभाजनं निचिक्षेप क्षपारम्भः, सन्ध्यारागरक्तांशुकधारिण्यो विलासिन्य इव गगनमरकतस्थालसंचारितसतारकतामिस्रदधिलवोन्मिश्रदूर्वापल्लवाः परस्परं संजग्मिरे ककुभ: उत्तरासङ्गशोभि स्वस्त्ययनमिव कर्तुमुजगाम व्योम्नि सप्तर्षिमण्डलम्। TM. III. p.59 LL. 5-9. क्रमेण चातिक्रान्ते प्रदोषसमये, समुल्लासितपौरस्त्यनभसि मन्दमन्दमुद्भिद्यमाने सौधांशवे महसि शशिकरप्रभासंवलिततिमिरासु तत्कालविकसितसकैरवेन्दीवरवनाभिररण्यसरसीभिः स्पर्धमानासु दिक्षु, विघटितान्तरालतिमिरसंधानेषु विच्छिन्नतया प्रतीयमानेषु तरुषु, तरुतलास्तीर्णपर्णशयने शयाने निर्भर राजपुत्रान्वेषणकान्तवपुषि पृतनापदातिलोके... TM. III. p. 60 LL. 2-6. समरकेतुः अध्यवसितकुमारान्वेषणो वेश्रवणवल्लयां दिशं प्रत्युदचलत्। उद्गते च स्पष्टिताष्टदिमुरवे दशशतमयूरेवे... तमनेकपथिकलोकप्रहतमुत्पांशुलं मार्गम्, अपरेण पतितशीर्णतरुपर्णनिकरावकीर्णेन कान्तारवर्मना... प्रतस्थे। लङ्घितानेकसमविषमभूधरधराविभागब्धश्रमश्च पत्रललतागुल्पगुपिले विपुलसान्द्रच्छायाशखिनि सानुमत्प्रस्थे स्थितिमकरोत्। अतिवाहितक्लमश्च कंचित् कालम्... गिरिनदी स्रोतसि स्नात्वा... नीत्वा पराबसमयमुपस्थिते सायाहि कृतसंध्यावश्यकः प्रविश्य पर्वतगुहां सुष्वाप क्षपावसाने च क्षपितनिद्रः श्वापदारावैरुत्थाय शयनाद् गृहीतशस्त्रस्तमेव मार्गमतिदुर्गमनुसरन् रसातलगम्भीरभीमगह्वरया समरभूम्येव साहसरहितजनदुष्प्रवेशया, शिथिलमूलदुर्बलजटाजालकैः परस्परावकाशमिव दातुमप्रसारितशाखामण्डलैस्तारकानिकुरम्बमिव कुसुमस्तबकतां नेतुमम्बराग्रलग्नैः सरलसर्जार्जुन करज्जशाकशल्लकीप्रायैः पादपैरपास्तदिनकरोदयास्तमयदर्शनया, दुरवतारतुङ्गतटाभिरत्कोटिपाषाणपटल स्खलनबहुमुख प्रवृत्तमुखरश्रोतोजलाभिरनतिनिबिडनिर्गुण्डीलतागुत्ममुपिलीकृतोपलवालुकाबहुलविच्छिन्नान्तरालपुलिनाभिरुच्छलत्कूल -नलवननिलीननाहलनिवहकाहलकोलाहलाभिः शैलनिम्नगाभिर्निम्नीकृतान्तरालया, वनान्तरालसर्पभि स्तारतुमुलैर्मरुद्भिरिवदिङ्मुखेषु मुखरिताद्रिकुहरकुंजैः काहलाकुजितैः सूचितापतत्सुचिरसंगलितजनसंघातया, युवजनादतिरेकनिर्विवेकस्थविराभिर्निषादलोकादधिकनिर्दयद्विजातिभिर्दिवानिशमविश्रान्तनिनादैरापानकमर्दलैर्दूरादेव सूच्यमानसंनिवेशमिः प्रतिचुल्लि पच्यमानशूलीकृतानेकश्वापद पिशिताभिः प्रतिनिकुंजमाकर्ण्यमानबन्दीजनाक्रन्दाभिः । प्रतिवसति विभज्यमानतस्कराहतस्वापतेयाभिः, प्रतिडिम्भपमुपदिश्यमानमृगमोहकारिकरुणगीताभिः प्रतिजलाशयमासीनानायबडिशहस्तकैवताभिः प्रतिदिवसमन्विष्यमाणचण्डिकोपहारपुरुषभिधृताधिज्यधनुषा निभृतमुच्चारितचण्डिकास्तोत्रदण्डकेन सर्वतः प्रहितभय तरलदृष्टिना त्रयीभक्तेनेव गाढाञ्चितहिरण्यगर्भकेशवेशेन देशिकजनेन लघुतरोल्लङ्घयमानपरिसराभिः... शबरपल्लीभिरध्यासितविषमपर्वतोद्देशया, क्वचिद् दावदहना श्लिष्टवंशीवनश्रूयमाणश्रवणनिष्ठुरष्ठात्कारया, क्वचिदकुण्ठकण्ठीरवारावचकितसारङ्गलोचनांशुशारदा क्वचित् तेरुतलासवि शबरी विरच्य मान करिकुम्म मुक्तायादिशबल मुजाफल प्रालम्बय, क्वचिदघ: सुप्त दृप्ताजगरनिः श्वास नर्तितमहातरुस्तम्बया, क्वचिहुद श्रुकणिकाश्वागणिकशोच्यमान कोलदलित नि: स्पन्दसारमेय वृन्दया. क्वचित्र चारनिर्गत वनेचरान्विष्यमाणफलमूलकन्दया, क्वचिच्छेकशाखामृगाच्छिन्नपाथेयपथिकनिष्फललोष्ठवृष्टिहासिताटविकवर्गया, क्वचिच्चर्मबुधलुब्धकानुबध्यमानमार्गणप्रहतमर्मद्वीपिमार्गया सापराधवध्वेव प्रियालपनसफलीभूतपादपातिनिष्ठया, वीरपुरुषतूण्येव गोरखराच्छमल्लशरभरोचितया जठरजीनीनेकोदिव्यौषधिसमूहयापि व्याधीनां गणैराक्रान्तया गन्तुमटवीभुवाप्रावर्तत। Ibid. Vol. III pp. 59-60, 62-66. TM. III. p. 62 LL.7-10.