________________
[६]
विधाय चर्चामवगत्य धर्म
विधूतशङ्काः सकला बनूवुः । निशम्य चैतत्सुगुरोरमोघ
धर्मोपदेशं रुचिरं प्रसेपुः ॥७॥ चरित्रनेतुर्वरधीः सुशिष्य
रत्नायितः श्रीयुतलब्धिनामा । द्रव्याऽनुयोगाऽश्रितसूत्रमत्र
व्याख्यानकाले समवाचयच्च ॥७॥ आखेटकक्रीडनकं विधातुं
योधाः कियन्तः समुपेतवन्तः। छायापुरीसीमनि तांश्च पौरा
थागृह्य निन्युगुरुदेवपाचे ॥श् ॥ समागतास्ते गुरुराजमेनं
दृष्ट्वैव जीताः प्रणतिं प्रचक्रुः । सूरीश्वरस्तान् बहुशास्त्रपाठ
रुपादिशत्स प्रणतान् सुभीतान् ॥७॥