________________
श्री विद्यापति चरित्रं
न याति दीयमानापि श्रीवेद्दीयत एव तत् । तिष्ठत्यदीयमानापि नो चेद्वीयत एव तत् ॥३२॥ अन्वयः- दीयमाना अपि श्रीः चेत् न याति, तत् दीयते एव, अदीयमाना अपि चेत् नो तिष्ठति तत् दीयते एव ||३२|| इति विस्मितयोर्वार्तारसोर्मिप्लुतयोस्तयोः । आलिलिङ्ग दिवं पिङ्गः क्षपावल्लिदवो रविः ॥३३॥ अन्वयः - इति वार्तारस - उर्मि - प्लुतयोः विस्मितयोः तयोः क्षपावल्लिदवः पिङ्गः रविः दिवं आलिलिङ्गः ॥३३॥
तथैवाथ श्रियं दत्वा कृत्वा कर्म दिनोचितम् । सुष्वाप पुण्यपूर्णोऽयं प्रतिज्ञातपरिग्रहः ॥३४॥ अन्वयः - अथ तथैव श्रियं दत्वा दिन - उचितं कर्म कृत्वा, पुण्य-पूर्ण: प्रतिज्ञातपरिग्रहः अयं सुष्वाप ||३४|| इत्थमेष नवाहानि हानिहीनां श्रियं ददत् । कल्पद्रुमाधिदेवीनामपि श्लाघ्यत्वमागतः ॥३५॥ अन्वयः- इत्थं नव अहानि हानिहीनां श्रियं ददत् एषः कल्पद्रुम -अधिदेवीनां अपि श्लाघ्यत्वं आगतः ॥ ३५॥
१७५
प्राच्यपुण्यपयः पङ्को मुक्तिमार्गस्य दूषकः । शोषमेष्यति मे दिष्ट्या श्रीपुरः श्वस्तने दिने ॥३६॥ अन्वयः- प्राच्यपुण्यपयः पङ्कः मुक्तिमार्गस्य दूषकः, मे दिष्ट्या श्रीपुरः श्वस्तने दिने शोषं एष्यति || ३६ ||
इति प्रीतमना नक्तं सुप्तः स्वप्ने श्रिया रयात् । आनन्दसुन्दरदृशा स बभाषे शुभाशयः ॥ ३७ ॥ युग्मम् ॥