________________
श्री सुमित्रा चरित्रं
३०३
अन्वयः - इति श्रुत्वा भूभुजा, अयं मन्त्री जिनदासस्य पश्यतः हन्तव्यः इति क्रुधा कारागारे नियन्त्रितः ॥५३॥
अथ जङ्गालकर भारुढो वीरद्वयान्वितः । जगाम जिनदासाय काशीं गुप्तो नृपः स्वयम् ॥५४॥ अन्वयः - अथ 'जङ्गाल करभ आरुढो वीरद्वय - अन्वितः, गुप्तः नृपः स्वयं जिनदासाय काशीं जगाम ॥ ५४ ॥ कार्यो मन्त्री स एवेति वयो निश्चित्य धर्मधीः । सभार्यः सह भूपेन स वसन्तपुरं ययौ ॥५५॥ अन्वयः- सः एव मन्त्री कार्यः इति वचः निश्चित्य धर्मधीः, सभार्यः स भूपेन सह वसन्तपुरं ययौ ॥५५॥ सर्वैश्वर्यं नृपादाप्य सचिवायापकारिणे । मन्त्रित्वं स ददौ धीमान द्विष्टा ह्युपकारिणः ॥ ५६ ॥ अन्वयः - सर्व ऐश्वर्यं मन्त्रित्वं नृपात् आप्य धीमान् सः अपकारिणे सचिवाय ददौ हि उपकारिणः द्विष्टा न ( भवन्ति ) ||५६ ॥
अथागाद्वनपालोऽत्र वर्धयन्निति भूपतिम् । वनेऽभूत्केवलज्ञानं शङ्करर्षेस्तपस्यतः ॥५७॥
अन्वयः- अय अत्र वने तपस्यतः शङ्करऋषेः केवलज्ञानं अभूत् इति वर्धयन् वनपालः भूपतिं अगात् ॥५७॥
तुष्टिदानं प्रदायास्मै वनेऽगाद्विक्रमो नृपः । सहैव जिनदासेन धुर्या धर्मे हि तादृशाः ॥ ५८ ॥ अन्वयः - अस्मै तुष्टिदानं प्रदाय विक्रमः नृपः जिनदासेन सह एव वने अगात्, हि धर्मे तादृशाः धुर्या: ( भवन्ति ) ॥५८॥
मुनिं नत्वोपदेशं च श्रुत्वावादीददो नृपः । मन्मित्रे जिनदासे किं सापदः सम्पदः प्रभो ! ॥५९ ॥
१. जङ्घाल= वेगवाळा, २. करभ=उंट