________________
२९९
श्री सुमित्रा चरित्रं अथ तौ प्रथितस्वेद-खेद-तृष्णापरम्परौ । जितक्षीरेण नीरेण तेन प्रीतिं परां गतौ ॥३१॥ अन्वयः- अथ प्रथितस्वेद-खेद-तृष्णापरम्परौ तौ,
जितक्षीरेण तेन नीरेण परां प्रीतिं गतौ ॥३१॥ अथ कूपेऽत्र केनापि सज्जरज्जुनियन्त्रितः । क्षिप्तोऽम्भःकृतये कुम्भः पुण्यकुम्भः इवैतयोः ॥३२॥ अन्वयः- अथ अत्र कूपे केन अपि एतयोः पुण्यकुम्भः इव
सज्जरज्जुनियन्त्रितः कुम्भः अम्भकृतये क्षिप्तः ॥३२॥ ततोऽन्तःकुम्भरोधेन तौ मत्वा तेन धीमता । मेलयित्वा जनान्कृष्टौ कूपान्मृत्योर्मुखादिव ॥३३॥ अन्वयः- ततः अन्तः कुम्भरोधेन तौ मत्वा तेन धीमता, जनान् मेलयित्वा
(तौ) मृत्योः मुखात् इव कूपात् कृष्टौ ॥३३॥ यावत्तौ निःसृतौ सार्थस्तावदग्रे स्थितो महान् । निर्गतं मिथुनं कूपादिति कोलाहलं व्यधात् ॥३४॥ अन्वयः- यावत् तौ निःसृतौ तावत् अग्रे स्थितः सार्थः,
'मिथुनं कूपात् निर्गतं' इति कोलाहलं व्यधात् ॥३४॥ तच्छब्दात्कौतुकी सार्थवाहोऽपि द्रुतमागतः । सुतां पतियुतामग्रे पश्यन्मनसि विस्मितः ॥३५॥ तत् शब्दात् कौतुकी सार्थवाहः अपि द्रुतं आगतः, पतियुतां सुतां अग्रे पश्यन् मनसि विस्मितः ॥३५॥ धनाख्यं जिनदासोऽपि सार्थवाहं निरीक्ष्य तम् । श्वसुरोऽयमिति ज्ञात्वा नमश्चक्रे चमत्कृतः ॥३६॥ १. अम्भःकृतये=अम्भः पाणी, कृतये मेळववा) माटे