________________
श्री सुमित्रा चरित्रं
(१३)
दानं चतुर्विधाऽऽहार-वस्त्र-पात्रोकसां मुनौ । शिक्षाव्रतं तदतिथिसंविभागं तुरीयकम् ॥१॥ अन्वयः- मुनौ चतुर्विध-आहार-वस्त्र-पात्र-ओकसां दानं,
तद् अतिथिसंविभागं तुरीयकं शिक्षाव्रतम् (स्मृतम्) ॥१॥ एकावयवतोऽप्येतत्सेवितं श्रद्धयाधिकम् । सुमित्राया इवोन्नत्यै जायते द्वादशं व्रतम् ॥२॥ अन्वयः- श्रद्धया एक अवयवतः अपि सेवितं द्वादशं व्रतं,
सुमित्रायाः इव अधिकं उन्नत्यै जायते ॥२॥ तद्यथा-पृथिवीभूषा श्रीवसन्तपुराभिधम् । पुरन्दरपुरश्रीणां विवर्तो वर्तते पुरम् ॥३॥ अन्वयः- तद्यथा-पृथिवीभूषा 'पुरन्दरपुरश्रीणां विवर्तः श्री वसन्तपुर
अभिधं पुरं वर्तते ॥३॥ विक्रमाक्रान्तदिकचक्रः क्षमाशको विक्रमाभिधः । नृपः कृपापवित्रोऽभूत्तत्र क्षत्रशिरोमणिः ॥४॥ अन्वयः- विक्रम-आक्रान्तदिक्चक्रः क्षमाशक्रः कृपापवित्रः । क्षत्रशिरोमणिः विक्रम-अभिधः नृपः अभूत् ॥४॥
१. ओकस्=घर-वसति (उपाश्रय) । २. पुरन्दरपुरश्री इन्द्रपुरीनी लक्ष्मी (देवलोकी शोभा) । ३. विवर्तः रूपान्तर ।