________________
श्री विद्यापति चरित्रं
६
ईदृक् चतुर्व्रतीरूपनिरूपणसुदर्पणम् । पञ्चमं तु व्रतं धीराः कलयन्त्वतिनिर्मलम् ॥१॥
अन्वयः - ईदृक् चतुःव्रतीरूप निरूपणसुदर्पणं अति-निर्मलं पञ्चमं तु व्रतं धीराः 'कलयन्तु ॥१॥
असंतोषादिदोषाहिमोहहालाहलामृतम् ।
परिग्रहस्य मानं यत् तत्पञ्चममणुव्रतम् ॥२॥
अन्वयः - असंतोष आदि दोष - अहि-मोह - हालाहलामृतं परिग्रहस्य यत् मानं तत् पञ्चमं अणुव्रतम् ॥२॥
क्रूरात्म-संसृतिवधूचकितस्य मनीषिणः । मुक्तिसीमन्तिनीमेलसङ्केतस्थानलक्षणम् ॥३॥
परिग्रहप्रमाणाख्यव्रतकल्पगुरद्भुतः ।
निषिध्यमानमप्यर्थं दद्याद्विद्यापतेरिव ॥४॥ युग्मम् ॥
अन्वयः - क्रूर आत्मसंसृति - वधू - चकितस्य मनीषिणः मुक्ति सीमन्तिनीमेल सङ्केत स्थानलक्षणम् ॥३॥
परिग्रहपरिमाण आख्य व्रत कल्पद्रुः अद्भुतः विद्यापते: इव निषिध्यमानं अपि अर्थं दद्यात् ॥४॥
-
१. कलयन्तु - जाणो । २. दोष अहि-दोष रूपी साप) । ३. हालाहल विष हालाहलामृतंहालाहलाय अमृतं इव- विष माटे अमृत जेवुं । ४. अर्थं - धन