________________
अथ प्रशस्तिः
श्रीमते वीरनाथाय, कारूण्यपुण्यपाथसे । चरमतीर्थनाथाय परोपकारिणे नमः ।।१।।
,
गौतमस्वामिने स्वस्ति, सुधर्मस्वामिने नमः । तत्परम्परयाऽऽयात- यतीन्द्रेभ्यो नमो नमः ||२||
शुभ्राभ्रशुभ्रसन्तत्या-मेतस्यामभवत् किल । विजयानन्दसूरीशः, सुरीशसेव्यतां गतः || ३ || ततोऽपि कमलः सूरिः, संयमकमलाकरः । उपाध्यायस्तथा वीरो वीर आन्तरविग्रहे ||४||
,
सर्वागमरहस्यज्ञ-स्ततो दानसूरीश्वरः । ततोऽपि प्रेमसूरीशः, सिद्धान्तकमहोदधिः ||५|| भुवनभानुसूरीश-स्ततो न्यायविशारदः । पंन्यासोऽस्यानुजः पद्मः समतारससागरः ||६|| विराजते विनेयोऽस्य, मादृशेषु कृपापरः । वैराग्यदेशनादक्षः, श्रीहेमचन्द्रसूरिपः ।।७।।
/
तत्पादपङ्कजालिना, सूरिकल्याणबोधिना । सन्दृब्धोऽयं प्रबन्धस्तु कुर्यात् सर्वस्य मङ्गलम् ||८||
I