________________
वर्गोपनिषद् हर्षवशादेव सन्तोषप्रकर्षं प्राप्ता, एवंविधा सा तेषां दुष्टानां यावद् देवगुरुप्रभृतीन् परिभवतां पूर्वबहुभवेष्वेकतः सहितानाम् - निजसहवासिनामित्यर्थः, द्वाविंशतिवणिजां परमप्रीत्या साहाय्यं करिष्यति ।
तया णं अग्गिदत्ता ! ते दुवीसवाणियगा दुट्ठा जाव परिहवंता तीसे णं सुवच्छावाणवंतरीए साहाज्जेण धणेण धन्नेण कलत्रपुत्रादिपरिवारेणं पीइसक्कारसमुदएण वुड्डिस्संति । तया णं ते दुवीसवाणियणा दुट्ठा जाव परिहवंता धणेणं जाव समुदएणं वड्डिया समाणा बाहाहिं अप्पाणं अप्फोडिस्संति, वग्गिस्संति, गुंजिस्संति । __ अग्निदत्त ! तदा ते दुष्टा यावत् परिभवन्तो द्वाविंशतिवणिजस्तस्याः सुवत्सावानव्यन्तर्याः साहाय्येन धनेन धान्येन कलत्रपुत्रादिपरिवारेण प्रीतिसत्कारसमुदयेन वर्द्धिष्यन्ते । तदा ते द्वाविंशतिवणिजो दुष्टा यावत् परिभवन्तो धनेन यावत् समुदयेन वृद्धाः - वृद्धि प्राप्ताः सन्तः, बाहुभिरात्मानमास्फोटयिष्यन्ति - गर्वतो वक्षोभागे ताडयिष्यन्ति, वल्गिष्यन्ति - आत्मसम्भावनापिशुनं शब्द