________________
२८
वर्गचूलिका पादेयत्वेनोरीकृतवन्तः, त्रिप्रदक्षिणापूर्वकं कामलतापरिव्राजिकायाः पार्श्वे शौचमूलं धर्मं प्रपत्स्यन्ते । पुनरपि तस्यै कृतप्रणामाः स्वकेषु गृहेषु प्रतिगमिष्यन्ति । परिव्राजकधर्मपरमभक्ताश्च भविष्यन्ति ।
तदेतच्छौचमूलो धर्मो मिथ्या, मृत्तिकादेरेव स्वर्गादिश्रेयोनिबन्धनत्वे कुम्भकारादेरपि तदवाप्तिप्रसङ्गात्, तथा चोक्तम् - जइ मट्टियाए सग्गो उदएण मीलियाइ संतीए । मन्नामि कुंभकारा सपुत्तदारा गया सग्गं - इति (नानाचित्तप्रकरणे ६४) । तदुक्तं परैरपि - मृत्तिकोदकसम्पर्काद्यदि शुध्यन्ति जन्तवः । कुलालः सकुटुम्बोऽपि तर्हि स्वर्गं गमिष्यति - इति (स्कन्दपुराणे) । न हि दुष्टभावो सर्वगङ्गापानीयादिनापि विशुद्ध्यति, तत्तत्प्रक्षाल्यत्वविरहात्, उक्तञ्च - गङ्गातोयेन सर्वेण मृत्पिण्डैश्च नगोपमैः । अमृतैराचरन् शौचं दुष्टभावो न शुद्धयति - इति ( भागवते) ।
तथापि दृष्टिरागग्रहगृहीतास्ते श्वपाका एनं धर्ममुरीकृतवन्तः ।
अह ते दुवीससोवागा मिच्छादसणधारिणो अण्णधम्मपडिणीया हुत्था । सेसाणं पंचदरि
१. ग.छ - हुंता ।