________________
ऋषिभाषितटीका
४२-४४
१५७
अल्पेनाकिञ्चन्येन बहु देवत्वं ज्येष्ठमुपरिभवं मध्यमं कनीयसमधस्तनं, यदि वा बहु बहूनि कुलानि माननीयानि धनवन्ति वा मध्यमानि कनीयांसि दरिद्राण्येषयेत् । निरवद्ये स्थितस्य न कल्पते पुनरपि सावध सेवितुम् । - सोमीयमध्ययनम् । लाभे यो न सुमना अतिहृष्टोऽलाभे यो नैव दुर्मनाः असन्तुष्टः, स खलु मनुष्याणां श्रेष्ठो देवानामिव शतक्रतुः । - जमाध्ययनम् । यमाभ्यां रागद्वेषाभ्यामुत्पीडयद्भयां नैवोत्पीड्यते स रागाङ्गे च विद्वेषाने च सम्यगात्मानं नियच्छति । वरुणाध्ययनम् ।
यस्यात्मा
४५
अल्पं चायुरिह मानवानां सुचिरं च कालं यावन्नरकेषु वासः, सर्वे च कामा नरकाणां मूलम् को नाम बुधः कामेषु रमेतू ? (१) ॥ पापं च कुर्या - न्न प्राणिनो हन्याद् अतिगतरसः, न कदाचिद् उच्चावचेषु शयनासनेषु रमेत, किं तु तान् समतिक्रामेद् वायुरिव जलम् ( २ ) -(३)।।(४)(५)(६)(७)(८)(९) (१०)।। यं हन्ताऽभियोक्ता विवर्जयति यद्विषं नरो न भुनक्ति यं वा व्यालं गृह्णाति नास्ति ततो भयम् ( ११ ) ॥ सरसं नीरं स्वच्छं प्रतिधावन्तं दंष्ट्रिणं राङ्गिणं श्वापदं दोषभीरुणो विवर्जयन्ति, एवं पापं विवर्जयेत् ( १२ ) ॥ पापकर्मोदय प्राप्य दुःखेन दुःखभाजनं दोषेण च दोषोदयी पापकार्याणि प्रसूते (१३) || उर्वीपाराज् जलौघान्तात् तेजन्या वा दग्धात् तृणगुच्छान् मृतोत्थितम् उक्तस्थानेभ्यो मृत्वा प्रत्यागतमनश्वरं जीवानां जीवित, जीवदेव भवति फलमन्दिरं धान्यागारं कर्मफलभाजनमिति श्लेषः (१४ ) || यदि यो त्रियमाणस्य वसुंधरां पृथिवीं सागरन्तां दद्याजीवितं वाऽनयोरेकतरं वरयस्वेति, ततः स मरणभीरुर्जीवितमिच्छति (१५) | (१६) (१७) (१८) | ये प्राणिनस्तांश्च घातं च प्राणिनां च या प्रिया दया, सर्वमेतद् विज्ञाय प्राणिघातं विवर्जयेत् (१९) || (२०) (२१) ॥ तस्मात् प्राणिदयार्थमेकाग्रमना भूत्वा दयार्थी मुनिरप्रमत्तो विहरेद् यथा कश्चित् तैलपात्रधरः (२२) |(२३) (२४)|| ये भावेनाभिनन्दन्ति जिनाज्ञां तेषां कल्याणानि सुखान्यृद्धयश्च सर्वथा न दुर्लभा भवन्ति (२५) | (२६) (२७) || अस्नातो वा यथा रम्यं सरो, व्याधितो वा रोगहरं वैध, क्षुधितो वाऽऽहारं रणे युद्धे मूढो व्याकूलो वा बन्द लुण्ठितं, वह्नि शीताहतो वाऽपि निवातं वाऽनिलाहतस्त्रातारं वा भयोद्विग्न, ऋणार्त्तो वा