________________
१४२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् कलोलाऽभिधानं पुरं चाऽऽजगाम,
जनाऽऽरब्ध-चारूत्सवैः प्राऽविशच्च । पुराऽन्तर्मुनीन्दुर्ददौ शुद्ध-धर्मो
पदेशं प्रशस्यं भवाऽऽब्धि-प्रतारम् ॥७८८॥ उपजाति: - तस्माद्विहत्याऽऽगमच्चैष पान
सरं पुरं पौरजनैश्च तत्र । प्रावेशि बैण्डाऽऽदिक-वाद्य-गीतै
रदादसौ धीर-गिरोपदेशम् ॥७८९॥ इन्द्रवंशा - प्रस्थाय तस्मादपि सर्वसाधुभिः,
सत्रा स मित्रायित एष तेजसा । तद्भोयणीनाम पुरं समाययौ,
लोकांश्च भव्यान् प्रतिबोधमाददत् ॥७९०॥ तत्राऽपि पौरैर्विविधोत्सवै-रसौ,
प्रावेश्यताऽत्यन्त-सुसज्जितं पुरम् । पीयूष-धारायित-देशनामसौ,
कामं प्रवर्षन् घन-साम्यतामगात् ॥७९१॥ सम्प्रस्थितश्चैष ततोऽपि वीरम
ग्रामं समायात इहाऽपि नागराः । प्रावीविशन्नम्बर-पूर्ण-निस्वनै
बॅण्डाऽऽदि-नानाविध-वादनैः पुरम् ॥७९२॥