________________
उदयपुर-मावली-कपासण-सादडी-काकरौली-देसुरी-धाणेरावखीमेलादिग्रामनगरेषु विहारः, चित्रकूट-करेडा-वरकाणा-ऽर्बुदाचलकुम्भारियादितीर्थयात्राश्च । अनुक्रमेण राजनगरे आगत्य चातुर्मास्यावस्थानम् । ततो नरोडा-सरखेज-पानसर-भोयणी-शंखेश्वरपत्तनादिषु विहृत्य केसरियातीर्थयात्रा | ततः पत्तनपुरे आगमनं, श्रीहेमचन्द्राचार्य-ग्रन्थावलिस्थापना ।
१५२ थी १८३ ____चतुर्मासानन्तरं चारूप-रणूजादिग्रामेषु विहारः, उद्यापनादिमहोत्सवाश्च । ततः पत्तनपुरे आगमनम् । तत्र मुनिमनोहरविजयरविविजययोवृहद्दीक्षा उद्यापनमहोत्सवश्च । ततश्चाणस्मानगर्यामागमनं, जलाशयाद् निर्गतायाः श्रीशीतलनाथ-मूर्तेः प्रतिष्ठापनम् । वर्षाकालानन्तरं वडनगरे गत्वा उपधानतपो-विधापनम् । ततो राधनपुरे गमनम् । तत्र सोमचन्द्रश्राद्धस्य दीक्षापूर्वकं मुनिसम्पद्विजयस्य बृहद्दीक्षा । ततस्तारङ्गतीर्थयात्रां कृत्वा वडनगर - वीसनगरादिषु विहृत्य राजनगरे आगमनम् । उपधान-तपोविधापनम्। वर्षाकालानन्तरं पन्ज्यासश्रीनीतिविजयगणीन्द्रस्य आचार्यपदवी, अष्टाह्निकादिमहोत्सवाश्च । गुरुदेववैयावृत्त्याय राजनगरेऽवस्थानं, चतुर्मासनिवास उपधानादितपोविधापनं च ।
१८३ थी २१६ राजनगराद् विहृत्य श्रीसिद्धाचलतीर्थयात्रा, पादलिप्तपरे च चतुर्मासकरणम् । तत्रोपधानादितपो-मालारोपण-शान्तिस्नात्रादिमहोत्सवा जैनसेवासमाजस्थापना च । तत ऊना-ऽजाहरापार्श्वनाथप्रभासपतनादितीर्थेषु विहत्य जीर्णदुर्गे रैवतगिरियात्रा । ततो वेरावलनगरे गमनं चतुर्मासवासश्च । ततो विहृत्य प्रभासपत्तने गमनं, तत्रत्यजिनमन्दिरजीर्णोद्धारप्रबन्धविधापनं च । ततो वेरावलनगरे आगत्य रखजीआख्यश्राद्धं दीक्षयित्वा मुनि रविविजयेति नाम दत्तम् । ततः पोरबन्दर-जामनगरादिषु विहृत्य रैवताचलतीर्थयात्रा, जूनागढनगरे चतुर्मासाऽवस्थानं, सूरिवरोपदेशेन च रैवताचलतीर्थोद्धारप्रारम्भश्च । ततो विहृत्य सिद्धाचलतीर्थयात्रां कृत्वा राजनगरे आगमनम् । तत्रोद्यापनमहोत्सवो रायचन्द्रश्राद्धस्य च दीक्षादानपूर्वकं मुनिगुण-विजयेति नामविधापनम् । केशवश्राद्धं दीक्षयित्वा मुनिकमलविजयेति नाम दत्तम् । वर्षाकालानन्तरं विहृत्य राधनपुरे गमनम्, उद्यापनमहोत्सवः । ततः पत्तनपुरे गमनम् । तत्र पन्ज्यासदयाविजयस्योपाध्यायपदवीप्रदानं, मुनिशान्तिविजयस्य च पन्ज्यासपदवीप्रदानम् । ततो जूनागढनगरे गमनम् । रैवताचलतीर्थे ध्वजदण्डमहोत्सवः, जगजीवनश्राद्धस्य च दीक्षा | ततो जेतपुरगोण्डल-राजकोट-मोरबीप्रभृतिषु विहृत्य वांकानेरनगरे गमनम्,