________________
विसनगरजनान् धर्मोपदेशः, कारितं उपधानं च ।
१२५ वसन्ततिलका - स्वाऽऽचार-कर्म-जिन-भाषित-शुद्ध-जैन
धर्मानजानत इमान् पुर-वासिलोकान् । शैथिल्यवद्यतिजनाऽधिकसङ्गदोषा( षान्),
तानेष धर्मरसिकानकरोच्छ्रमेण ॥६९७॥ व्याख्यान-पद्म-मकरन्द-पराग-लुब्ध
भृङ्गीभवत्सकल-जैन-तदन्यलोकाः । अत्युत्सुकाः प्रतिदिनं समये समेत्य,
संश्रुत्य चैकमनसा बहुलाभमीयुः ॥६९८॥ चक्राण एष जनता-परमोपकर्ता,
भूम्ना श्रमस्य शनकैः सकलांश्च पौरान् । धर्मेषु कर्मसु सदाचरणेषु लोकान्,
सद्रागिणः कुयति-सङ्गतिमुज्झयित्वा ॥६९९॥ निर्दोष-संयम-दुराप-सुरत्न-भासा,
प्रद्योतयञ्जगदिदं सकलं महात्मा । सम्प्रैदिधत्परममार्हत-धर्ममेष,
___ योगीश्वरश्चरितनायक आर्यवर्यः ॥७००॥ आर्यागीतिः - तत्रत्याः कतिमुख्याः, सह नवपद्याराधनेनोपधानम् । कारयितुं तप उग्रं, सद्गुरुमेनं प्रार्थयाञ्चक्रुरनघम् ॥७०१॥ गीतिः - नाथ ! इहाऽधिकलोकाः, समुशन्ति तदाराद्धं बहुभक्त्या । अत एव गुरो ! प्रसीद, पूरय सकल-मनोरथं तदवश्यम् ॥७०२॥