SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४५६ श्रीवर्धमानसूरिविरचित [स.४. १२३३-१२४४] तं दिशन्तं दशविधव्रतधर्मविधीसुधीः।। शिवशर्माथ सहसोपानमत्सह सोदरैः ॥ १२३३ ॥ श्रुतधर्मा व्रतं प्राप्य शिवशर्मादयस्ततः। • तपस्तापेन सौधर्म भेजुः सुखसुधासरः ॥ १२३४ ॥ भल्लक्षुल्लकनामा च वैताढये ऽत्रैव भारते । खेचरो ऽजनि जैनेन्द्रधर्मारामैकषट्पदः ॥ १२३५ ॥ व्यदधादन्वहं स्तोकीकृतकर्ममहाभरः । जिनयात्रोत्सवं पञ्चदशकमहीषु सः १२३६ ॥ स धर्मरतिरुत्कण्ठाकुण्ठविघ्नकदम्बकः । यत्र यत्राशकद्गन्तुं तत्र तत्रानमज्जिनान् ॥ १२३७ ॥ शुद्धश्राद्धव्रताम्भोजखण्डमार्तण्डमण्डलः । खेचरः सो ऽपि सौधर्मकल्पस्याकल्पतां गतः ॥१२३८ ॥ इतश्च जम्बूद्वीपे माग्विदेहे दक्षिणादिशि । अभूद्गरुडवेगाख्यो वैताढये खेचरेश्वरः॥ १२३९ ।। कमलश्रीमुखी तस्य कमलश्रीः प्रियाजनि । पद्मश्रीप्रमुखाः पुण्यश्वतस्रो जज्ञिरे तयोः॥ १२४० ।। वनावनिगतास्तत्र चतस्रो ऽपि निरोक्ष्य ताः । समाधिगुप्तनामानमानमन्मुनिमुन्मुदः ॥ १२४१ ॥ अल्पायुष्कं मुनिस्तासां मत्वा तत्तारणकधीः । तत्पश्चमीतिथिदिनं ज्ञात्वा चेदमवोचत ॥ १२४२ ॥ ज्ञानप्रपञ्चात्पञ्चम्यामुपवासः क्रियेत यः। भवन्त्यनन्यसामान्या भोगास्तत्फलमुज्ज्वलम् ॥१२४३॥ उपवासः स एवोच्चैः कृतकर्मशमः क्रमात् । याति स्वर्गापवर्गश्रीसुखदाननिदानताम् ॥ १२४४ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy