________________
૫૭૮
તત્ત્વાર્થાધિગમ સૂત્ર
पूजाप्रकर्ष प्राप्तः प्राप्स्यति वा नासावर्हन्, अर्हतीति वर्तमानक्रियाशून्यत्वात् तदिति । असावपि महतां हसनीयः, कूपमण्डूक इव तत्त्वानभिज्ञः । न हि खलु जलाहरणक्रियाविरहितोऽपि कदाचिद् घट इत्यनुच्यमानो घटो लोकोपचाराय जायत इति । इह नैगमावलम्बिनो नैयायिका वैशेषिकाश्च । सङ्ग्र हैकालम्बिनोऽद्वैतवादाः, साङ्ख्यदर्शनं च । व्यवहारैकानुपातिनश्चार्वाकाः । ऋजुसूत्रैकनिविष्टमतयो बौद्धाः । शब्दनयभेदावलम्बिनो वैयाकरणाः । सर्वेऽप्यमी पाखण्डप्रवृत्ताः संसारभारवाहा इति ।
"बौद्धाश्च नैयायिकशैवकापिला-श्चार्वाकवैयाकरणाश्च बौटिकाः ।
ये निह्नवाः सांशयिका विमेधसः, सर्वेऽपि ते संतमसस्वरूपिणः ॥ १॥" तत्र बौद्धाः सौगताः शाक्याः शाक्यवंश्याः शून्यवादिनः क्षणक्षयिण इत्यनर्थान्तरम् । नैयायिकाः आक्षपादा अक्षपदवंश्या इत्यनर्थान्तरम् । वैशेषिकाः शैवाः औलुक्या उलूकवंश्या इत्यनर्थान्तरम् । कापिला: कपिलवंश्या यौगाः साङ्ख्याः , वेदान्तिनोऽद्वैतवादिन इत्यनर्थान्तरम्, चार्वाका आत्मचर्वका आत्मखादका आत्मनिषेधका नास्तिका लौकायतिका बार्हस्पत्या बृहस्पतिवंश्या भूतवादिन अक्रियावादिन दृष्टमानिन इत्यनर्थान्तरम् । वैयाकरणाः शाब्दिका व्याकरणाधीतिनः शब्दविद इत्यनर्थान्तरम् । बौटिका दिगम्बरा जैनाभासाः शिवभूतिवंश्या नग्ना आजीविका इत्यनर्थान्तरम् । निह्नवा निह्नवका द्रव्यलिङ्गिन गुप्तदम्भाः पण्डितमानिनः पामरा इत्यनर्थान्तरम् । सांशयिकाः ससंशया बादरबुद्धयः श्लथमतयः साधारणवंश्या वातूलवशा इत्यनर्थान्तरम् । विमेधसो बाला जडा मन्दा मूर्खा समगोगवया बालिशा मूढा यथाजाता मातृमुखा विवर्णा अज्ञा देवानांप्रिया जाल्मा अज्ञानिकाः शिशव इत्यनर्थान्तरम् । समासतस्तु इमे कृत्स्ना अपि यथा मिथ्यात्विनः मिथ्यामतयः कुवादिनः दुर्वादिनः पाखण्डिनो विदृशो हतदृशो निर्लोचनाः अपारमार्थिकाः तामसाः तिमिरवासिनः मिथ्यादृशः मिथ्यादर्शनाः बहुलसंसाराः स्वतोविराधकाः पशवः अनन्तानुबन्धिनः कुज्ञानिनः असम्यक्त्वाः अविरतयः असंयताः अप्रत्याख्यानाः अन्धाः अबोधयः स्ववञ्चकाः चाण्डाला इत्यनर्थान्तरम् । तत्रैतेष्ववान्तरभेदाः शतशो शतशो भवन्ति । ते ह्यागमसमुद्रतोऽवबोध्या:
"जावइया वयणपहा, तावइया चेव हुन्ति नयवाया । जावइया नयवाया तावइया चेव परसमया ॥१॥" इति वचनात् ॥
"पयमवि असद्दहन्तो सुत्तुत्तं मिच्छदिट्ठीओ" इत्याचार्यपादाः । सर्वैरप्येभिः प्रागुक्तस्वरूपैरपराजितास्तु जैना आर्हताः स्याद्वादवादिनः निरनन्तानुबन्धिनः स्वल्पसंसाराः परमार्थज्ञाः तत्त्वज्ञाः निःशङ्किताः निःकांक्षिताः निर्विचिकित्साः स्वताराधिनः सम्यक्त्विनः सुलोचनाः सुदृशो निस्तमसः प्राप्तरत्नाः भिन्नग्रन्थयो जिनवंश्याः प्रावचनिका इत्यनान्तरम् ॥
४८. (षट्त्वं) - षण्णां भावः षट्त्वम् । (अ०१ सू०३५)