SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अथ प्रशस्तिः श्रीमते वीरनाथाय, कारूण्यपुण्यपाथसे । चरमतीर्थनाथाय, परोपकारिणे नमः ||१|| गौतमस्वामिने स्वस्ति, सुधर्मस्वामिने नमः । तत्परम्परयाऽऽयात-यतीन्द्रेभ्यो नमो नमः ||२|| शुभ्राभ्रशुभ्रसन्तत्या-मेतस्यामभवत् किल । विजयानन्दसूरीशः, सुरीशसेव्यतां गतः ||३|| ततोऽपि कमलः सूरिः, संयमकमलाकरः | उपाध्यायस्तथा वीरो, वीर आन्तरविग्रहे ||४|| सर्वागमरहस्यज्ञ-स्ततो दानसूरीश्वरः । ततोऽपि प्रेमसूरीशः, सिद्धान्तैकमहोदधिः ||५|| भुवनभानुसूरीश-स्ततो न्यायविशारदः | पंन्यासोऽस्यानुजः पद्मः, समतारससागरः ||६|| विराजते विनेयोऽस्य, मादृशेषु कृपापरः | वैराग्यदेशनादक्षः, श्रीहेमचन्द्रसूरिपः ||७|| तत्पादपङ्कजालिना, सूरिकल्याणबोधिना । सन्दृब्धोऽयं प्रबन्धस्तु, कुर्यात् सर्वस्य मङ्गलम् ।।८।।
SR No.022475
Book TitleAsprushad Gatiwad
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJinshasan Aradhak Trust
Publication Year
Total Pages104
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy