SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ [१२०] ( अन्वयः ) तयो:, अत्यन्तभेदे, अपि, बद्ध:, कचित्, न, मुच्यते एवञ्च सर्वशास्त्रोक्तम् भावनादि, निरर्थकम् | " " वृत्तिः — तयोः - बन्धमोक्षयोः । अत्यन्त भेदे - अतिशय वैधर्म्ये । अपि- संभावनायाम् । बद्धः - संसृतः । क्वचित् कुत्रचित् । न-नहि । मुच्यते - मुक्तो भवति, मुक्तो भवितुं शक्नोतीति यावत् । एवनबद्धस्य मुक्तत्व स्वीकारे । सर्वशास्त्रोक्तम- समस्तागमप्रतिपादितम् । भावनादि - भावनाप्रमुखम् । निरर्थकम् - व्यर्थम् । यदि बद्धस्य मुक्तिर्नास्तीति निश्चयस्तदा निखिलशास्त्रप्रतिपादितेन भावनादिना - ऽनुष्ठितेन कृतमिति भावः ।। ५३ ।। नाचेतनस्य बन्धादि, केवलस्यैव युक्तिमत् । अमती तेस्तदेकत्व - नित्यत्वादेश्व सर्वथा ॥ ५४ ॥ ( अन्वयः ) केवलस्य, अचेतनस्य, एव बन्धादि न, युक्तिमत्, अप्रतीतेः, च, तदेकत्वनित्यत्वादेः, सर्वथा, (अप्रतीतेः) । वृत्तिः — केवलस्य - सजातीयद्वितीयरहितस्य । अचेतनस्यचैतन्यविरहितस्य । प्रधानादेरित्यर्थः । एव - खलु । बन्धादि - संसारादि । आत्मा न बध्यते नापि मुच्यते किन्तु प्रकृतिर्वध्यते मुच्यते " इत्यादिना सांख्यदर्शने प्रतिपादितमिति यावत् । ननहि । युक्तिमत् युक्तम् । अप्रतीते:- अचेतनस्य प्रधानस्य मुक्तेः प्रतीत्यभावात्, बन्धस्यापि प्रतीत्यभावाच्च । च पुनः तदेकत्वनित्यत्वादेः - अचेतनैकत्वनित्यत्वादेः । 66 अप्रतीतेः - प्रतीत्यभावात् ॥ ५४ ॥ सन्तत्यपेक्षयाऽप्येत - निरन्वयविनाशिषु । तदभावात्तथाभेदा-देकान्तेन न युज्यते ॥ ५५ ॥
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy