________________
[११३] ७५ ( मूलम् ) तदभावे त्वहेतुकत्वेन सदा तच्छब्दप्रयोगापत्तेविरोधसिद्धिरितिचेत् न, अहेतुकत्वा सिद्धेः, तथाविधभाषाद्रव्यात्मप्रयत्नहेतुकत्वात् ,
तद्विवक्षाभावेऽपि तत्प्रयोगे भवद्भिः स्वीकृतस्याहेतुकत्वस्यासिद्धत्वादिति, कृत इति चेत-तथाविधेति-भाषाद्रव्यात्मप्रयत्नानां वक्तृत्वं ( शब्दप्रयोगं) प्रति हेतुत्वस्य पूर्व निरूपितत्वात् तथाचाहेतुकत्वं शब्दप्रयोगस्य नापादनीयतामहंतीति कुतः सर्वदा तच्छब्दप्रयोगापत्तिरिति भावः। -
ननु भाषाद्रव्यात्मप्रयत्नानां वक्तृत्वहेतुत्वेन वेदबोधनम् , न च राजाज्ञेति किं प्रमाणमित्याशङ्कय समाधत्ते-तेषां चेति
७६ (मूलम् )-तेषां च तथाविधत्वस्यादृष्टादिनिबन्धनखात्, अन्यथा, विवक्षाया अपि सदाभावेनोक्तदोषानतिवृत्तेः,
तेषाम्-भाषाद्रव्यात्मप्रयत्नानाम् च-पुनः तथाविधत्वस्यवक्तृत्व हेतुत्वस्य अदृष्टादिनिबन्धनत्वात्-अदृष्टादिप्रयोज्यत्वात् । ननु भाषाद्रव्यादीनां तथाविधत्वस्यादृष्टादि निबन्धनत्वं न मया स्वीक्रियते इतिचेत्तत्राह-अन्यथेति-अन्यथा-भाषाद्रव्यादीनां वक्तृत्वहेतुत्वस्यादृष्टादि निबन्धनस्वास्वीकारे विवक्षाया अपि सदासर्वदा-भावेन-सत्त्वेन--उक्तदोषानतिवृत्त:-प्रागुक्तदोषानति वर्तनात्, विवक्षाया अप्यहेतुकत्वप्रसक्त्या “विवक्षया च वक्तृत्वम्" इत्यादि दोषानवकाशादिति भावः ।