________________
[९१] अयं भावः अदःपदार्थतया विवक्षिते पक्षे सर्वज्ञविरुद्धत्वं सर्वज्ञभिन्नत्वं वा भवता साध्यते तदुभयसिद्धिः प्रतियोगिभूसर्वज्ञात्मकपदार्थसिद्धिसापेक्षैव, नहि केनचित् कुत्रापि गगनकुसुमकूर्मक्षीरादिविरुद्धत्वं तदन्यत्वं वा साधयितुं शक्यते प्रतियोगिनोऽप्रसिद्धत्वात् , एवश्च नहि तादृशेनानुमानेन भवतामभिलषितंफलतीति ॥ २५ ॥ ___ नम्वदःपदार्थतयाऽभिमते विपरीतज्ञे अविपरीतज्ञभेदो विरोधो वा साध्यते एवञ्चाविपरीतज्ञमपेक्ष्य भेदस्य विरोधस्य सिद्धावपि न सर्वज्ञः सिद्धयति, तस्य विपरीताविपरीतोभयज्ञत्वादित्याशङ्कय समाधत्ते-बिपरीतज्ञ इत्यादिना
विपरीतज्ञ इष्टश्चे-नन्वनेकान्तदर्शनम् । प्रमाणसङ्गतं तेन, नैतदप्युपपद्यते ॥ २६ ॥
( अन्वयः ) चेत्, विपरीतज्ञः, इष्टः, ननु, अनेकान्तदर्शनम् , प्रमाणसङ्गतम् , तेन, एतदपि, न, उपपद्यते ।
वृत्तिः-चेत्-यदि । विपरीतज्ञः-विपरीतं जानातीति तथा, अदःपदार्थतया पक्षत्वेन, इष्ट:-अभिमतः । भवतामितिशेषः । ननु-निश्चयेन । अनेकान्तदर्शनम्-स्याद्वाददर्शनम् । प्रमाणसङ्गतम्प्रामाणिकम् । भवेदिति शेषः । भवतामप्येकस्मिन् घटादौ विपरीताविपरीतत्वोभयाभ्युपगमात् एकस्मिन्ननेकधर्मसमावेशनात्मकमनेकान्तदर्शनमभ्युपेयमित्यनेकान्तदर्शनं भवतामनिष्टमपि सम्पन्नं भवेत्, एवञ्चास्माकीनः पक्षः सिद्धयतीति भावः । तेन-हेतुना । एतदपि-इदमप्यनुमानम् । न-नहि । उपपद्यते