________________
[५५] भावेऽपि घटादेरस्तित्वस्य सिद्धत्वात् , घटादिभावसिद्धिमुपपादयतितथाहीति-पटादिग्राहकेण प्रमाणेनागृह्यमाणा अपि सन्तो घटादयो न न सन्त्येव किन्तु सन्त्येवेतिलोकानुभवात्।
१९ ( मूलम् )-तद्ग्राहक प्रमाणमेव नास्तीति चेत् ? उच्यते, कि भवत एनोताहो सर्वप्रमातृणामिति ।
ननु लोकानां तत्र कथं सत्त्वेन सर्वज्ञप्रतीतिः तद्ग्राहकप्रमाणाभावादित्याशङ्कते-तदिति । - समाधत्ते-उच्यते इति-प्रमाणाभावेन सर्वज्ञसत्त्वं वारयन्सं पृच्छति किमित्यादि-किं भवत एव सर्वज्ञग्राहक प्रमाणं नास्त्यथवा सर्वेषामेव प्रमाणामपीति । ___२० (मूलम् ) यदि भवत एव, सिद्ध साध्यते, भवतः परोक्षत्वात् प्रवचनार्थानवग तेश्च । अथ सर्वप्रमातृणामिति, अत्र न प्रमाणम् , तच्चेतसामप्रत्यक्षत्वात्, अन्यथा तदभावनिश्चयानुपपत्तेः, तत्प्रत्यक्षताभ्युपगमे च तत्संवेदनवतः तथाऽतीन्द्रियोपलम्भकत्वाभ्युपगमात् तद्भभावसिद्धिरेव ।
तत्र यदि प्रथमः पक्षः स्वीक्रियतेऽर्थात् भवत एव तद्ग्राहक प्रमाणं नास्तीत्यनुमन्यते तदा सिद्धसाधनमापद्यते, कुतः सिद्धसाधनमित्तिचेसदाह-भवत इति-तस्य भवतः परोक्षत्वेन तद्ग्राहक प्रमाणाभावो भवतां सिद्ध एवेति तस्यैवसाधनादिति, य एव सर्वज्ञीयप्रवचनार्थानगन्ता तदीयमानसप्रत्यक्षविषयः सर्वज्ञोभवतीति