SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ [४२] . कश्चित् पुनः सर्वज्ञज्ञानस्य ज्ञेयत्वं मन्यमानोऽपि प्रत्यक्षत्वमस्वीकुर्वाण: प्रत्यवतिष्ठते अपरस्त्वाहेत्यादि । कस्यचिदपि वस्तुनो ज्ञेयत्वं प्रत्यक्षत्वं च समकालमनुपपन्न मिति प्रायः सर्वोऽपि मन्यत एव, एवञ्च सर्वज्ञज्ञानस्य ज्ञेयत्वेऽपि तेनार्थप्रत्यक्षत्वान् नास्ति प्रत्यक्षत्वम् , ज्ञानस्य प्रत्यक्षत्वस्वीकारेऽर्थस्याप्रत्यक्षत्वं दुरुद्धरं भवेत् , तदन्यसर्वज्ञप्रत्यक्षत्वस्वीकारोऽपि चानवस्थाभिया कर्तुमशक्य एवेति सर्वज्ञाज्ञनात्मनि पक्षे हेतोज्ञेयत्वस्य सत्त्वेऽपि साध्यस्य प्रत्यक्षत्वस्यासत्त्वाद्वयभिचार इतिप्रतिपक्षसारांशः, तन्निराकरोतिएतदप्यसदिति, उपपादयति तस्यार्थग्रहणरूपस्येत्यादिना-सर्वज्ञत्वानुपपत्तेश्चेत्यन्तेन । - अर्थग्रहणात्मनो ज्ञानस्य स्वसंविदितत्वेन प्रत्यक्षत्वस्य सूपपादतयोभयप्रत्यक्षत्वाभ्युपगमे नास्त्येव काचित् क्षतिः, अन्यथार्थप्रत्यक्षत्वा सिद्धेः हृल्लेख-(ज्ञानसम्बन्ध) शून्यस्याविकारितयाऽऽत्मनो दर्शिनोऽवश्यं दर्शनायोगः, अर्थ पश्यतः पुनर्विकृतत्वेन चिद्रपा विक्रियैवाज्ञानमिति सर्वज्ञत्वमेवानुपपन्नं भवेदितिग्रन्थ उपपादनीयः । अथ ज्ञेयत्वे प्रत्यक्षत्वाविनाभावमस्वीकृत्योक्त नुमानं खण्डयितुं प्रत्यवतिष्ठते-अपरस्त्वाहेत्यादिना, कथं तेषु तद् गमयेत् इत्यन्तेन । साध्ये नाविनाभूतस्यैव हेतोः साध्यानुमापकत्वमिष्टं, यस्य कस्यचित् सद्भावमात्रतो नेष्टम् , अत एव धूमस्य वन्यनुमापकत्वमेब नतु पानीयानुमापकत्वमपीतिज्ञेयत्वस्यातीन्द्रियभावेषु प्रत्यक्षत्वाविनाभावादर्शनान्नातीन्द्रियभावेषु प्रत्यक्षत्वगमकत्वमिति तादशयः, समाधत्ते-अत्रोच्यतेइति, उपपादयति-सामान्यतो दृष्टेत्यादि-दिनकरे गतिमत्त्वेन हेतुना देशान्तरप्राप्त्यात्मनः साध्यस्याविनाभावाभावेऽपि सामान्यतो दृष्टानुमाननीत्या 'आदित्यो गति
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy