________________
[२३] न चेदं तत्वतः प्रत्यक्षम् , असाक्षादसम्पूर्णवस्तुपरिच्छेदात्मकत्वात् , प्रयोगश्च-इन्द्रियमनोनिमित्तं विज्ञानमप्रत्यक्षं, ग्राह्य ग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वात् , धूमादग्निज्ञानवत् , विपक्षः केवलम् ॥
एवञ्च सर्वज्ञः सर्वज्ञ इति तत्साधनज नितालीकसहृदयत्वभावनामुकुलितलोचनैर्यन्नृत्यते सर्वज्ञवादिभिस्तत्र न कञ्चन हेतुं पश्याम इति पूर्वपक्षिणां मतं स्थिरीकृत्य सिद्धान्तिभिः सूरिप्रवरैः समाधीयते-अत्रोच्यते-इत्यादिना-प्रत्यक्षादिप्रमाणगोचराक्रान्तत्वा तमर्वज्ञकल्पनाऽसमीचीनेति यद्भवद्भिरूक्तम , तत्-भवतां मतम् , अयुक्तम्-युक्तिततिविरहितम् । कुतोऽयुक्तमित्याकाङ्खायामाह-यतो न सर्वेत्यादि-प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वाभावान्न तावत्सर्वज्ञाभावः साधयितुं शक्यते, तथाहि यदीन्द्रियप्रत्यक्षं निखिलपदार्थग्राहिमवेत् स्वीक्रियेत वा तदेन्द्रिय प्रत्यक्षगोचरातिक्रान्तत्वेन भावानामात्यन्तिकासत्ता सिद्धयेत् तदेव ( सर्वपदार्थग्राहीन्द्रियप्रत्यक्षमेव ) तु नास्तीति सर्वज्ञस्य प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वेऽपि न तदसत्तासिद्धिः । इन्द्रियप्रत्यक्षस्य सर्वपदार्थग्राहित्वाभावेऽपि तादृशप्रत्यक्षमाप्रणगोचरातिक्रान्तत्वेन भावनामसत्तायाः स्वीकारे तु समुद्राद्यगाधजलस्थितेन्द्रियप्रत्यक्षगोचरातिकान्तरत्नादीनामप्यसत्ताऽऽपद्यतेतिभावः । तादृशरत्नादयोऽप्यसन्त एवावतिष्ठन्तामितिशङ्कायामाह-तदगोचराणामपोत्यादिना-इन्द्रियप्रत्यक्षगोचरातिकान्तानामपि वह्नयादिपदार्थानां सतामेवानुमानादिजन्यबोध विषयतयेष्ठत्वादित्यर्थः । अन्यथेत्यस्यैवापरव्याख्यानम्-अनुमानादेरप्यसत्तामात्रत्वे इति. अनुमानादेरप्यसत्पदार्थमात्रविषयकबोधजनकत्वे इतितदर्थः । सति अतिप्रसङ्गात्-सत्पदार्थेऽपि पर्वताद्यधिकरणकवह्नयादावसत्ताया अति