________________
[१४] प्रमाणं भवितुमर्हतीति भावः । उपमानात्मकप्रमाणेनैव सर्वज्ञः सेत्स्यतीत्याशङ्कां परिहतुकाम आह-अप्रत्यक्षेत्यादिद्वितीय'र्द्धम्उपमानेन-सादृश्यज्ञानात्मकेनोपमानेन प्रमाणेन । अपि-सम्भावनार्थमव्ययम् । न-नहि । एव-अवधारणार्थकम् । गम्यते-ज्ञायते । सर्वज्ञ इति शेषः । तत्र हेतुमाह-अप्रत्यक्षत्वत:-सर्वज्ञस्य प्रत्य क्षत्वाभावात् , प्रत्यक्षस्यैव वस्तुनो गवयादेर्गवयादिप दवाच्यताग्रहो यथोपमानप्रमाणेन भवति न तथा सर्वज्ञे सर्वज्ञपदवाच्यताग्रहो भवितुमर्हति. सर्वज्ञस्याऽप्रत्यक्षत्वात्, तथाचोपमानेनापि प्रमाणेन सर्वज्ञो न गृह्यते इति जातम् । . नार्थापत्या हि सर्वोऽर्थ-स्तं विनाऽप्युपपद्यते । प्रमाणपश्चकावृत्ते-स्तत्राभावस्य मानता ॥ १३ ॥
(अन्वयः) हि. अर्थापत्त्या, न, तम् , विना, अपि, सर्वः, अर्थः, उपपद्यते, (एवञ्च) प्रमाणपश्चकावृत्तेः, तत्र, अभावस्य, मानता ॥
वृत्तिः-हि-निश्चयेन । अर्थापत्त्या-स्वविरहप्रयोज्येनानुपपद्यमानेनार्थेन स्वस्याक्षेपोऽर्थापत्तिर्यथा रात्रिभोजनं विनाऽनुपपद्यमानेन दिवसाधिकरणकभोजनाभावविशिष्टदेवदत्तसम्बन्धिना पीनत्वेन रात्रिभोजनस्याक्षेपः, तादृश आक्षेप एवाऽर्थापत्त्याख्यं प्रमाणं स्वीक्रियते अयमाशयः- " उपपाद्यज्ञानप्रभवमुपपादकज्ञानमर्थापत्तिः, तत्र योऽर्थोऽन्येन केनचित् कल्पनीयेन विना नोपपद्यते सोऽर्थ उपपाद्यः, यस्यच कल्पनीयार्थस्याभावे सत्युगपाद्यं नोपपद्यते स कल्पनीयोऽर्थ उपपादक इत्युच्यते । यथागृहाऽ. सत्त्वरूपोऽर्थो बहिःसत्त्वरूपेण कल्पनीयार्थेन विना नोपपद्यत