________________
जैनतर्कभाषा। गमत्पूर्वभद्रपदा मुहूर्तात्पूर्वम् , उत्तरभद्रपदोद्गमानवगमात् । नास्त्यत्र सम्यग्ज्ञानम् , सम्यग्दर्शनानुपलब्धेरिति । सोऽयमनेकविधोऽन्यथानुपपत्येकलक्षणो हेतुरुक्तोऽतोऽन्यो हेत्वाभासः।
__ [२०. हेत्वाभासनिरूपणम् । ] ५६. स त्रेधा-असिद्धविरुद्धानकान्तिकभेदात् । तत्राप्रतीयमानस्वरूपो हेतुर5 सिद्धेः । स्वरूपाप्रतीतिश्चाज्ञानात्सन्देहाद्विपर्ययाद्वा । स द्विविधः-उभयासिद्धोऽन्यतरासिद्धश्च । आद्यो यथा शब्दः परिणामी चाक्षुषत्वादिति । द्वितीयो यथा अचेतनास्तरवः, विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वात् , अचेतनाः सुखादयः उत्पत्तिमत्त्वादिति वा।
६५७. नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति, तथाहि-परेणासिद्ध इत्युद्भाविते 10 यदि वादी न तत्साधकं प्रमाणमाचक्षीत, तदा प्रमाणाभावादुभयोरप्यसिद्धः । अथा
चक्षीत तदा प्रमाणस्यापक्षपातित्वादुमयोरपि सिद्धः। अथ यावन्न परं प्रति प्रमाणेन प्रसाध्यते, तावत्तं प्रत्यसिद्ध इति चेत् ; गौणं तद्यसिद्धत्वम् , न हि रत्नादिपदार्थस्तत्वतोऽप्रतीयमानस्तावन्तमपि कालं मुख्यतया तदाभासः। किञ्च, अन्यतरासिद्धो यदा
हेत्वाभासस्तदा वादी निगृहीतः स्यात्, न च निगृहीतस्य पश्चादनिग्रह इति युक्तम् । 15 नापि हेतुसमर्थनं पश्चाद्युक्तम् , निग्रहान्तत्वाद्वादस्येति । अत्रोच्यते-यदा वादी सम्यग्
घेतुत्वं प्रतिपद्यमानोऽपि तत्समर्थनन्यायविस्मरणादिनिमित्तेन प्रतिवादिनं प्राश्निकान् वा प्रतिबोधयितुं न शक्नोति, असिद्धतामपि नानुमन्यते, तदान्यतरासिद्धत्वेनैव निगृ. ह्यते। तथा, स्वयमनभ्युपगतोऽपि परस्य सिद्ध इत्येतावान(इत्येतावत)वोपन्यस्तो हेतुरन्य
तरासिद्धो निग्रहाधिकरणम् , यथा साङ्ख्यस्य जैनं प्रति 'अचेतनाः सुखादय उत्पत्ति20 मत्त्वात् घटवत्' इति ।
५८. साध्यविपरीतव्याप्तो विरुद्धः। यथा अपरिणामी शब्दः कृतकत्वादिति । कृतकत्वं ह्यपरिणामित्वविरुद्धेन परिणामित्वेन व्याप्तमिति ।
६५९. यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः । स द्वेधा-निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । आयो यथा नित्यः शब्दः प्रमेयत्वात् । अत्र हि 25 प्रमेयत्वस्य वृत्तिनित्ये व्योमादौ सपक्ष इव विपक्षेऽनित्ये घटादावपि निश्चिता । द्वितीयो
यथा अभिमतः सर्वज्ञो न भवति वक्तृत्वादिति । अत्र हि वक्तृत्वं विपक्षे सर्वज्ञे संदिग्धवृत्तिकम् , सर्वज्ञः किं वक्ताऽऽहोस्विति सन्देहात् । एवं स श्यामो मित्रापुत्रत्वादित्या. घप्युदाहार्यम् ।
६६०. अकिश्चित्कराख्यश्चतुर्थोऽपि हेत्वाभासमेदो धर्मभूषणेनोदाहतो न श्रद्धेयः ।