________________
जैनतर्कभाषा त्वात् । बुद्धिरचेतनेत्यादौ च प्रसङ्गविपर्ययहेतोयातिसिद्धिनिबन्धनस्य विरुद्धधर्माध्यासस्य विपक्षबाधकप्रमाणस्यानुपस्थापनात् प्रसङ्गस्याप्यन्याय्यत्वमिति वदन्ति ।
६४९. हेतुः साध्योपपस्यत्यथानुपपत्तिम्यां विधा प्रयोक्तव्यः, यथा पर्वतो वह्नि. मान्, सत्येव वहौ धूमोपपत्तेः असत्यनुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिप5 तौ द्वितीयप्रयोगस्यैकत्रानुपयोगः।
६५०. पक्षहेतुवचनलक्षणमवयवद्वयमेव च परप्रतिपस्यङ्गं न दृष्टान्तादिवचनम् , पक्षहेतुवचनादेव परप्रतिपत्तेः, प्रतिबन्धस्य तर्कत एव निर्णयात्, तत्मरणस्यापि पक्षहेतुदर्थनेनैव सिद्धेः, असमर्षितस्य दृष्टान्तादेः प्रतिपत्त्यनङ्गत्वाचत्समर्थनेनैवान्यथासिद्धेश्च ।
समर्थनं हि हेतोरसिद्धत्वादिदोषानिराकृत्व स्वसाध्येनाविनाभावसाधनम्, तत एव 10 च परप्रतीत्युपपत्तौ किमपरप्रयासेनेति ।।
६५१. मन्दमतीस्तु व्युत्पादयितुं दृष्टान्तादिप्रयोगोऽप्युपपुज्यते, तथाहि-यः खलु क्षयोपशमविशेषादेव निर्णीतपक्षो दृष्टान्तस्मार्यप्रतिबन्धग्राहकप्रमाणस्मरणनिपुणोऽपरावयवाभ्यहनसमर्थश्च भवति, तं प्रति हेतुरेव प्रयोज्यः। यस्य तु नाद्यापि पक्षनिर्णयः, तं प्रति पक्षोऽपि । यस्तु प्रतिबन्धग्राहिणः प्रमाणस्य न स्मरति, तं प्रति 15 दृष्टान्तोऽपि । यस्तु दार्शन्तिके हेतुं योजयितुं न जानीते, तं प्रत्युपनयोऽपि । एवमपि
साकाक्षं प्रति च निगमनम् । पक्षादिस्वरूपविप्रतिपत्तिमन्तं प्रति च पक्षशुधादिकमपीति सोऽयं दशावयवो हेतुः पर्यवस्यति ।
[१९. हेतुप्रकाराणामुपदर्शनम् ।] ५२. स चायं द्विविधा-विधिरूपः प्रतिषेधरूपश्च । तत्र विधिरूपो द्विविध:20 विधिसाधकः प्रतिषेधसाधकश्च । तत्रायः षोढा, तद्यथा-कश्चिद्याप्य एव, यथा शब्दोऽ.
नित्या प्रयत्ननान्तरीयकत्वादिति । यद्यपि व्याप्यो हेतुः सर्व एव, तथापि कार्याधनात्मव्याप्यस्यात्() ग्रहणाद्भेदः, वृक्षः शिशपाया इत्यादेरप्यत्रैवान्तर्भावः । कश्चिकार्यरूपः, यथा पर्वतोऽयमनिमान् धूमवस्वान्यथानुपपत्तेरित्यत्र धूमः, धूमो बनेः
कार्यभूतः तदभावेऽनुपपद्यमानोऽमिं गमयति । कश्चित्कारणरूपः, यथा वृष्टिभविष्यति, 25 विशिष्टमेघान्यथानुपपत्तेरित्यत्र मेघविशेषः, स हि वर्षस्य कारणं स्वकार्यभृतं वर्ष गम
यति । ननु कार्याभावेऽपि सम्भवत् कारणं न कार्यानुमापकम् , अत एव न वलिधुमंगमयतीति चेत् सत्यम् ; यस्मिन्सामाप्रतिवन्धः कारणान्तरसाकल्यं च निश्चेतुं शक्यते, तस्यैव कारणस्य कार्यानुमापकत्वात् । कश्चित् पूर्वचरः, यथा उदेष्यति शकटं कृत्तिको
I. Cf. Syadvadaratnakara, p. 554 2. Cf. Ibid., p. 554-555 3. Cf. Ibid., p. 565