SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७२ प्रायश्चित्तसंग्रहे गृहदाहे मनुष्याणां मरणे शुद्धिरीदृशी। उपवासैकभुक्तानि पृथगद्वाविंशतिः स्फुटं ॥ कलशाभिषेका वै द्वादश पंच पंचामृतैस्तथा । मोक्कूला विंशतिः प्रोक्ता धेनुरेका प्रदीयते ॥ भुक्तिदानानि पंचाशत्सहस्राणि भवन्ति तु । विंशतिः कुसुमानां वै पलं पंचकचन्दनम् ॥ २८॥ स्तनभारादिना बालो म्रियते यदि केनचित् । पंचादशोपवासाश्च त्रिंशत्पंचाधिकानि तु ॥ एकभक्तानि कलशैरेकैकं स्नपनं भवेत् ! दश पंचामृतैश्चान्ये द्वात्रिंशत्परिकीर्तिताः ॥ पलाष्टकं च गन्धस्य कुसुमानि तु विंशतिः । सहस्राणि च धेन्वेका पंच निष्कैः प्रपूजनं ॥ २९ ॥ प्रायश्चित्तं यः करोत्येतदेवं जाते दोषे तत्पशान्त्यर्थमार्यः । राष्ट्रस्यासौ भूमिपस्यात्मनोऽपि स्वास्थावस्थां वा स्थिति सन्तनोति ॥ ३० ॥ इत्यकलङ्कस्वामिनिरूपितं प्रायश्चित्तं समाप्तम् । Geeeeeee000ccecem PeeGOOGOGGeeeeeee समाप्तोयं ग्रन्थः ॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy