________________
प्रायश्चित्तसंग्रहे
उपयोगात्-तात्पर्यात् । व्रतारोपात् स्वस्मिन् व्रताध्यारोहणात् । पश्चात्तापात्-अनुतापात् । प्रकाशनात्-आत्मगतदोषप्रकटीकरणाच हेतोः । पादांशार्धतयाः-पादांशेन सर्वैरतैः पूर्वोक्तैः कृत्वा कृतदोषस्य चतुर्भागतया विनाशो भवति, अर्धतया कृतदुष्कृतस्य अध(शेन च नाशः स्यात् । सर्व-निःशेषं च । पापं—किल्विषं । नश्यत्-विनश्यति पलायते । विरागतः-विगतो रागो यस्माद्भावात् स विरागः तस्माद्विरागतः विरागात् वैराग्यात् संसारशरीरविषयनिर्वेदादपि विशुद्धभावपरंपरावशात् सकलमलकलङ्कपरिपातो भवति ॥ १५९ ॥
अवद्ययोगविरतिपरिणामो विनिश्चयात् । प्रायश्चित्तं समुद्दिष्टमेतत्तु व्यवहारतः ॥ १६०॥ अवद्ययोगविरतिपरिणामः-सर्वसावद्यसम्बन्धविनिवृत्तस्य य एव (?) । विनिश्चयात्-निश्चयनयापेक्षया शुद्धनयात् परमार्थोदयादित्यर्थः । प्रायश्चित्तं-मलहरणं । समुद्दिष्टं--अनूदितं । एतत्तु-यत्पुनरालोच्यते प्रदीयते विधीयते च प्रायश्चित्तं तत्सर्व । व्यवहारतः-व्यवहारनयापेक्षया भवति । तौ च व्यवहारनिश्चयनयौ अनादिबद्धावन्योन्यापेक्षौ च सन्तौ सम्यग्व्यपदेशमुपलभेताम् ॥ १६० ॥
प्रायश्चित्तं प्रमादेऽदः प्रदातव्यं मुनीश्वरैः।
अपि मूलं प्रकर्तव्यं बहुशो बहुशो भवेत् ॥ १६१ ॥ प्रायश्चित्तं-विशोधनं । प्रमादेऽदः-अदः एतत् आगमविनिर्दिष्टं, प्रमादे कथंचिद्दोषसम्पन्ने सति भवति । प्रदातव्यं-वितरितव्यं । मुनीश्वरैःआचार्यैः । अपि मूलं प्रकर्तव्यं--मूलमपि कर्तव्यं विधातव्यं । बहुशो बहुशः--अनेकशोऽनेको दोषमाचरतः सतः साधोः। भवेत् स्यात्॥१६१॥
गृहीतव्यं त्रयाणां न हितं स्वस्मै समीप्सुभिः । नरेन्द्रस्यापि वैद्यस्य गुरोहितविधायिनः ॥ १६२॥