SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रहे र्भवति-सूतकं नास्ति । गृहिवते-श्रावके च । एतस्मिन् सति तत्क्षणादेव शुद्धिर्भवति ॥ १५२॥ ब्राह्मणक्षत्रविट्छूद्रा दिनैः शुद्धयन्ति पंचभिः । दशद्वादशभिः पक्षाद्यथासंख्यप्रयोगतः ॥ १५३ ॥ ब्राह्मणक्षत्रविद्राः-ब्राह्मणा विप्राः, क्षत्राः क्षत्रियः, विशो वैश्याः, शूद्रा आभीरकुंभकारतक्षकादयः । दिनैः-दिवसः । शुद्ध्यन्ति-सूतकरहिता भवन्ति । पंचभिः (दशभिः) - ब्रह्मणाः । पंचभिर्दिवसः क्षत्रियाः शुद्ध्यन्ति । द्वादशभिः-दिवसः वैश्याः शुद्ध्यन्ति । पक्षात् --पंचदशभिदिवसैः शूद्राः संशुद्ध्यन्ति । यथासंख्यप्रयोगतः-यथाक्रमयुक्त्या॥१५३।। कारिणो द्विधाः सिद्धा भोज्याभोज्य प्रभेदतः । भोज्येष्वेवा प्रदातव्यं सर्वदा क्षुल्लकव्रतं ॥ १५४ ॥ कारिणः-कारवः । द्विविधाः-विभेदाः । सिद्धाः-लोकत एव प्रसिद्धाः । भोज्याः-यदन्नपानं ब्राह्मणक्षत्रियविट्छूद्रा भुंजन्ते । अभोज्याः-तद्विपरीतलक्षणाः। भोज्येष्वेव प्रदातव्या क्षुल्लकदीक्षा नापरेषु॥१५४॥ क्षुल्लकेष्वेककं वस्त्रं नान्यन्न स्थितिभोजनम् ।। आतापनादि योगोऽपि तेषां शश्वनिषिध्यते ॥ १५५॥ शुल्लकेषु-सर्वोत्कृष्टश्रावकेषु । एक-एकं । वस्त्रं--अम्बरं पटः । नान्यत्--अन्यहितीयं वस्त्रं न भवति । न स्थितिभोजनं-उद्भीभूयाभ्यवहारोऽपि न भवति । आतापनादियोगोऽपि-आतापनवृक्षमूलाभावकाशयोगश्च । तेषां-क्षुल्लकानां । शश्वत्-सर्वकालं । निषिध्यते-प्रतिबिध्यते ॥ १५५॥ १ अत्र क्षत्रब्राह्मणविट्छूद्राः इत्येवं रूपेण पाठेन भवितव्यं । अन्यथा छेदपिण्डछेदशास्त्र इति शास्त्रद्वयविरोधः स्यात् । २ अत्रस्थः पाठः पुस्तकाच्च्युत इत्यवभाति अतः दशभिः दिवसैः ब्राह्मणा शुद्धयन्ति इत्येवं रूपेण पाठेन भवितव्यम् ।
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy